________________ श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 358 // 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.2 तन्मैवं भण दोषसम्भवादिति शेषः / स चायं दोषो धर्मे प्रदेश इति भेदापत्तिः / यथा कुण्डे बदराणीति, न च प्रदेशप्रदेशिनौ [1] उपक्रमः। भेदेनोपलभ्येते। अथवाऽभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि / यद्येवमुभयत्र दर्शनात्संशयलक्षणो दोषः स्यात् / शा० उपक्रमः। 1.3 प्रमाणम्। अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे य से पएसे य से' ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारयः। द्रव्यादिचतुर्भेदाः एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः। आह, नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायादव्यतिरिक्त: सूत्रम् 476 सन्सामानाधिकरणतया निर्दिश्यते? उत तदेकदेशवृत्तिः सन्? यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश? इत्याशङ्कयाहसे पएसे धम्मेत्ति, सच प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः / शेषभावना पूर्ववत्, (से पएसे नोजीवे) से पएसे नोखंधे, इत्यत्रापि पूर्ववदेवार्थकथनम् / एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति, यद्यद्धर्मास्तिकायादिक वस्तु भणसि तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्, आत्मस्वरूपेणाविकलं निरवशेषम्, तदेवैकत्वान्निरव-नयभावयवमेकग्रहणगृहीतम्, एकाभिधानाभिधेयं नौ नानाभिधानाभिधेयम् / तानि होकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात् / तदेवम्भूतं तद्धर्मास्तिकायादिकं वस्तुभण, नतु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि, प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा? यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति / अथाभेदस्तहि धर्मप्रदेशशब्दयो: पर्यायतैव प्राप्ता, एकार्थविषयत्वात् / न च पर्यायशब्दयोयुगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति / तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः। एते च परस्परं निरपेक्षादुर्नयाः,सौगतादिसमयवत् / परस्परसापेक्षास्तु तत्तत्सर्वं / न। 0 सत्त्वेनोपयोगात्। प्रमाणम। प्रस्थकदृष्टान्तेन निरूपणम्। // 358 //