________________ भूमिका सूत्रम् श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 16 // आवश्यक:१ श्रुतः 2 इति पदत्रयनिक्षेपप्रतिज्ञा। कक्रमेणानन्तरमेवोक्तत्वादिति / अत्रोच्यते, यत्तावदुक्तम्, नन्द्यध्ययन एवेत्यादितदयुक्तम् / यतोनावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति / कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः। अन्यथा ह्यङ्गाबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति ।मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येयेति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति / यच्चोक्तम्, अत्राप्यङ्गबाटोत्कालिकक्रमेणे त्यादि। तत्रापि समुदितानामु-द्देश- समुद्देशा-नुज्ञा-नुयोगानांप्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे त्विदमेवोक्तम् / इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इत्यतो भिन्नप्रस्तावत्वात्पृच्छा क्रियते आवस्सयण्णं कि मित्यादि। विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः॥६॥ तदेवं यस्मादिदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतम्, यस्माच्चाष्टस्वनन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात्किमित्याह तम्हा आवस्सयं णिक्खिविस्सामि सुयं णिक्खिविस्सामिखंधं णिक्खिविस्सामि अज्झयणं णिविखविस्सामि // सूत्रम्॥ तम्हेत्यादि, / यस्मात्प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणावश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्याम्यध्ययनं निक्षेप्स्यामि / इदमुक्तं भवति, आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः / स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवत्यतोऽमीषां निक्षेपः क्रियते। तत्र निक्षेपणं निक्षेपः, यथासम्भवमावश्यकादेर्नामादिभेदनिरूपणम्॥७॥ तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह