SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | / / 356 // द्रव्यादिचतुर्भेदाः 1.3.4 वेत्यादि / एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुम्, पञ्चानां प्रदेश इति / इदमुक्तं भवति, यथा केषाञ्चित्पञ्चानां पुरुषाणां [1] उपक्रमः। साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारण: प्रदेश: स्यात्तदेयं 1.3 प्रमाणम्। वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्तस्मान्मा भण पञ्चानां प्रदेशोऽपि तु भण, पञ्चविधः पञ्चप्रकारः प्रदेश:, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः। तदेवाह- धर्मप्रदेश इत्यादि। एवं वदन्तं व्यवहारमृजुसूत्रो भणति, यद्धणसि सूत्रम् 476 पञ्चविधः प्रदेशः, तन्न भवतिकस्मात्? यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैकोधर्मास्तिकायादिप्रदेश: पञ्चविधःप्राप्तः,शब्दाद्ध्यत्र पचायःजाता, शब्दाचयभावप्रमाणम् / वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति / एवं च सति पञ्चविंशतिविधः प्रदेश: प्राप्नोति। तस्मान्मा भण, पञ्चविधः प्रदेश किन्त्वेवं भण, भाज्य: प्रदेश:स्याद्धर्मस्येत्यादि। इदमुक्तं भवति, भाज्यो विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिर्विभागै:? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति / स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्प्रस्तुतनयमतेनासत्त्वादिति / एवं भणन्तमजुसूत्रं साम्प्रतं शब्दनयो भणति- यद्भणसि, भाज्य: प्रदेश: तन्न भवति, कुतः? यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकाय प्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यादधर्मास्तिकाय-3 निरूपणम्। प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्। इत्थमपि भजनाया अनिवारितत्वात्, यथैकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति / एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम् / तदेवं नैयत्याभावादनवस्था प्रसज्येतेति, तन्मैवं भण, भाज्य: प्रदेशः, अपि त्वित्थं भण, धम्मे पएसे से पएसे धम्मे, इत्यादि / इदमुक्तं भवति, धर्मः प्रदेशइति, धर्मात्मकः प्रदेश इत्यर्थः / अत्राह- नन्वयं प्रदेश सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यत आहोस्वित्तदेकदेशाव्यतिरिक्तः शब्दादत्र / ®...वात्तवाप्यन... O(से पएसे धम्मे)' इति पाठः कौसान्तर्गतो वर्तते। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभाव प्रमाणम प्रस्थकदृष्टान्तेन // 356 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy