________________ श्रीअनुयोगद्वारंमलधारि शा० उपक्रमः। श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 355 // से किं तं पएसदिट्टतेण मित्यादि। प्रकृष्टो देशः प्रदेशः, निर्विभागो भाग इत्यर्थः / स एव दृष्टान्तस्तेन नयमतानि चिन्त्यन्ते। [1] उपक्रमः। तत्र नैगमो भणति, षण्णां प्रदेशः, तद्यथा, धम्मपदेसो, इत्यादि। धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः। 1.3 प्रमाणम्। एवमधर्माकाशजीवास्तिकायेष्वपि योज्यम् / स्कन्धः पुद्गलद्रव्यनिचयस्तस्य प्रदेश: स्कन्धप्रदेशः। देश:, एषामेव पञ्चानां धर्मा द्रव्यादिचतुर्भेदाः स्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः। अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशाः / एवं वदन्तं नैगमं ततो निपुणतरः सङ्ग्रहो भणति, यद्रणसि षण्णां प्रदेश इति, तन्न भवति, तन्न युज्यते / कस्मात्? यस्माद्यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितम्, तदसङ्गतमेव / यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य देशस्य यः प्रदेशः स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह- दासेणे त्यादि। लोकेऽप्येवं व्यवहृतिदृश्यते / यथा कश्चिदाहमदीयदासेन खर: क्रीतः, तत्र दासोऽपि मदीयः खरोऽपि मदीयः। दासस्य मदीयत्वात्तत्क्रीत:खरोऽपि मदीय इत्यर्थः। एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः / तस्मान्मा भण, षण्णां प्रदेशोऽपि त्वेवं भण पश्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः / तदेव दर्शयति, तद्यथा, धर्मप्रदेश इत्यादि / एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनांच नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन / प्रकृतमुच्यते, एवं वदन्तं सङ्ग्रहंततोऽपि निपुणो व्यवहारो भणति, यद्भणसि // 355 // पञ्चानां प्रदेशइति तन्न भवतिन युज्यते, कस्मात्? यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद्रव्यं सामान्यम्, एकं भवति, तद्यथा, हिरण्यंत (r) यत्सम्बन्धी। ®...मप्यवि... ©व्ये। 0 वस्तुसामान्य...। सूत्रम् 476 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.2 नयभावप्रमाणम्। प्रस्थकदृष्टान्तेन निरूपणम्।