SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 349 // [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 473-474 भावप्रमाणमा कारणे कार्योपचारात्तथाव्यवहृतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनमीत्युत्तरम् / केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक्पुनरतिव्यवहितत्वान्मलीमसत्वम् / एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया। नवरं तक्ष्णुवन्तंतनूकुर्वन्तम्, उत्किरन्तंवेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् / एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउ त्ति, आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति / एवमेव व्यवहारस्यापीति, लोकव्यवहारप्राधानो नयो व्यवहारनयः। लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यत इति भावः / संगहस्सेत्यादि / सामान्यरूपतया सर्वं वस्तु सङ्ग्रह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः / तत्र चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह-मित:पूरितः / अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितादेराकृतिगणत्वान्मयसमारूढः / अयमत्र भावार्थः, प्राक्तननयद्वयस्याविशुद्धत्वात्प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः / अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः / तस्य तदर्थत्वात्तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः। सोऽपि प्रस्थकसामान्याव्यतिरेकाव्यतिरेके चाप्रस्थकत्वप्रसङ्गात्सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति / उज्जुसुयस्सेत्यादि। ऋजुसूत्रः, पूर्वोक्तशब्दार्थः तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुःप्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथाप्रतीतेः / अपरं चासो पूर्वस्माद्विशुद्धत्वाद्वर्तमान एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति। तिण्हं Oडिउ। ७..धान्येनायं नयो। O..षणैर्वि..। 0 अनिष्पन्नः। गुण प्र०। 1.3.4.1.2 नयभावप्रमाणम् प्रस्थकदृष्टान्तेन निरूपणम्। // 349 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy