SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 350 // सद्दनयाण मित्यादि। शब्दप्रधाना नयाः शब्दनयाः, शब्दसमभिरूद्वैवंभूताः / शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यत:शब्दनया उच्यन्ते। आधास्तु यथाकथञ्चिच्छब्दा: प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते। अत एषां त्रयाणां शब्दनयानां प्रस्थकाँधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थकः / भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात्प्रस्थकः। यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति / उपयोगलक्षणो जीवः, उपयोगश्चेत्प्रस्थकादिविषयतया परिणत: किमन्यजीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः / जस्स वा वसेणे त्यादि। यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः। न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निर्वर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात्स एव प्रस्थकः / इमांच तेऽत्र युक्तिमभिदधति, सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्यैतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात् / प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति? चेतनाचेतनयोः सामानाधिकरण्याभावात्तस्मात्प्रस्थकोपयुक्त एव प्रस्थकः। से तमित्यादि निगमनम् / / 474 // से किं तं वसहिदिटुंतेणं?, 2 से जहानामए केई पुरिसे कुंचि पुरिसं वदिजा-कहिं भवं वससि?, तं अविसुद्धो णेगमो भणइलोगे वसामि। लोगे तिविहे पण्णत्ते, तं जहा- उडलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि?, विसुद्धतराओ णेगमो भणइ, तिरियलोए वसामि / तिरियलोए जंबुद्दीवादीया सयं भुरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा पण्णता, तेसु सव्वेसु भवं 0...कार्थाधि... 1 0 हो। 0 विशुद्धो णेगमो। भू। [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 475 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.2 नयभावप्रमाणमा प्रस्थकदृष्टान्तेन निरूपणम्। // 350 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy