________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 348 // [[1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः (वि) लिहमाणं पासेत्ता वदेजा- किं भवं(वि)लिहसि?, विसुद्धतराओ णेगमो भणति-पत्थयं(वि)लिहामि / एवं विसुद्धतरागस्स णेगमस्स नामाउडित ओ पत्थओ। एवमेव ववहारस्सवि। संगहस्स चिंतो मिओ मिज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थयो वि पत्थओ मिजंपिसे पत्थओ, तिण्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ, जस्स वा वसेणं पत्थओ निष्फज्जइसे तं पत्थयदिटुंतेणं ॥सूत्रम् 474 // से किं तं नयप्पमाणे, इत्यादि। अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम् / त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात्रैविध्यमुच्यते / तथा चाह- तद्यथा प्रस्थकदृष्टान्तेनेत्यादि / प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः॥ 473 // तत्र प्रस्थकदृष्टान्तं दर्शयति, तद्यथानामकः कश्चित्पुरुषः परशुकुठारं गृहीत्वाटवीमुखो गच्छेदित्यादि। इदमुक्तं भवति, प्रस्थको मागधदेशप्रसिद्धोधान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत्, कभवान् गच्छति? तत्राविशुद्धनैगमोभणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः / किमित्याह- प्रस्थकस्य गच्छामि। इदमुक्तं भवति, नैके गमा वस्तुपरिछेदा यस्यापि तु बहवः स निरुक्तवशात्ककारलोपतो नैगम उच्यते। अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तिमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारात्तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ, प्रस्थकस्य गच्छामीति / तं च कश्चिच्छिन्दन्तम्, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा च वदेत्, किं भवाँच्छिनत्ति? ततः प्राक्तनात्किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति, प्रस्थकं छिनधि। अत्रापि 0 विशुद्धतरस्स। (r) उडिओ। 0 चियमियमेज्ज। 7 मे। पत्थयस्स अत्थाहिगार...। सूत्रम् 473-474 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.2 नयभावप्रमाणम्। प्रस्थकदृष्टान्तेन निरूपणम्। // 348 //