________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 338 // वर्तिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः॥ 450 // तत्र उत्तिणाई ति, उद्गतानि तृणानि येषु वनेषु तानि तथा। [1] उपक्रमः। अयमत्र प्रयोगः, सुवृष्टिरिहासीदुत्तृणवन निष्पन्नसस्यपृथ्वीतल जलपरिपूर्ण कुण्डादिजलाशयप्रभृति तत्कार्यदर्शनाद्, अभिमतदेश 1.3 प्रमाणम्। वदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः॥ 451 // साधुंच गोचराग्रगतंभिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि- द्रव्यादिचतुर्भेदा: प्रचुरभक्तपानानियस्य स तथा तंतादृशं दृष्ट्वाकश्चित्साधयति सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त पानलाभदर्शनात्पूर्वदृष्टप्रदेशवदिति // 452 // अब्भस्स निम्मलत्तंगाहासुगमा। नवरं स्तनितंमेघगर्जितम् ।वाउब्भामोत्ति तथाविधोवृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षुभ्रमन्प्रशस्तो वातः। वारुणंति, आर्द्रामूलादिनक्षत्रप्रभवम्, माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम्, उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वानुमीयते, यथा सुवृष्टिरत्र भविष्यति तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथान्यदेति। विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्त्रैवल तत्र निपुणेन भाव्यमिति // 453 // एएसिं चेव विवच्चासे, इत्यादि। एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे, व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यः, यथा, कुवृष्टिरिहासीनितृणवनादिदर्शनादित्यादिव्यत्ययः सूत्रसिद्धः। नवरमनागतकालग्रहणे माहेन्द्र वारुणपरिहारेणग्नेय वायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषांक विशेषतोटष्टमेति सुवृष्टिहेतुत्वादिति / सेतं विसेसदिट्ठ, सेतं दिट्ठसाहम्मवमित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनानन्तरं युज्यते / यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात्कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम्, तदेतदनुमानमिति // 454-57 // अथोपमानम®जा। 0 निस्तु। ॐ त्र(द)। सूत्रम् 448-457 1.3.4 भावप्रमाणम्। 1.3.4.1 गणप्र०। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानग०प्र० 1.3.4.1.1.1.2 अनुमान गु०प्र० 1.3.4.1.1.1.2.3 दृष्टसाधर्म्यवद्। तस्य सामान्य द्विभेदौ। तयोः सोदाहरण व्याख्यानम्। // 338 //