________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 337 / / गहणं, सेतं विसेसदिटुं, से तं दिट्ठसाहम्मवं, सेतं अणुमाणे / / सूत्रम् 457 / / से किं तं दिट्ठसाहम्मवमित्यादि। दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद्गमकत्वेन विद्यते यत्र तदृष्टसाधर्म्यवत् / पूर्वदृष्टश्चार्थः कश्चित्सामान्यतः कश्चित्तु विशेषतो दृष्टः स्यादतस्तद्भेदादिदं द्विविधम् / सामान्यतो दृष्टार्थयोगासामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् // 448 // तत्र सामान्यदृष्टं यथैक: पुरुषस्तथा बहवः पुरुषाइत्यादि / इदमुक्तं भवति, नालिकेरद्वीपादायातः कश्चित्तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वानुमानं करोति यथायमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गाद्वादिवत् / बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति, यथामी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथापरोऽप्येकः कश्चित्पुरुष, एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गादश्वादिवदिति / एवं कार्षा-2 पणादिष्वपि वाच्यम्॥४४९॥ विशेषतो दृष्टमाह- से जहानामए, इत्यादि। अत्र पुरुषा:सामान्येन प्रतीता एव, केवलं यदा कश्चित्क्वचित्कञ्चित्पुरुषविशेषंदृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्येतमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति, य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वाऽभयाभिमतपुरुषवदिति। एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद् / एवं कार्षापणादिष्वपि वाच्यम् / तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- तस्स समासतो तिविहंगहणमित्यादि / तस्येति,सामान्येनानुवर्तमानमनुमानमात्रंसम्बध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति। तद्यथा, अतीतकालविषयं ग्रहणम्, ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणम्। प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्। कालत्रय [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 448-457 1.3.4 भावप्रमाणम्। 1.3.4.1 गण प्र०। 1.3.4.1.1 जीवगण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.2 अनुमान गु०प्र० 1.3.4.1.1.1.2.3 दृष्टसाधम्र्यवद्। तस्य सामान्यविशेषतोदृष्टमेति द्विभेदौ / तयोः सोदाहरणं व्याख्यानम्। // 337 //