SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 334 // द्रव्यादिचतुर्भेदाः तत्र कार्यकारणभाव एव केषाश्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाह- तन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणम्, [1] उपक्रमः / पूर्वमनुपलब्धस्य तस्यैव तद्भाव उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भाद् / अत्राह- ननु यदा कश्चिन्निपुणः पटभावेन 1.3 प्रमाणम्। संयुक्तानपि तन्तून्क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणंभवत्येव / नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत्स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य / ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तुम् / यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत् / नैवम्, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात्पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते / पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यतेऽतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम् / एवं वीरणकटादिष्वपि भावना कार्या / तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति // 444 // से किं तं गुणेणमित्यादि। निकषः, कषणपट्टगता कषितसुवर्णरेखा / तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदंसुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत्। भेदप्रभेदैः एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत् / एवं लवणमदिरावस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपा: साधयितव्याः॥ 445 // से किं / तं अवयवेणमित्यादि / अवयवदर्शनेनावयव्यनुमीयते, यथा महिषोऽत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतA O(आ)' इत्यधिकम् / ॐ वस्तु / सूत्रम् 440-447 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र० अनुमान गु०प्र०॥ पूर्ववदशेषवदृष्टसाधर्म्यवदिति त्रिभेदाः। तयो सोदाहरणं व्याख्यानम्। // 334 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy