SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः युतम्। // 333 // 440-447 1.3.4 भावप्रमाणम। 1.3.4.1 गुण प्र०। वदि'त्यादेरपि गमकत्वं स्यात् / अभ्यधायि च दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् यदिष्यते। लोहलेख्यं भवेद्वजं, पार्थिवत्वाद् [1] उपक्रमः। द्रुमादिवद् ॥१॥इति / यदिच, पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात्साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति / आह च अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्? / नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्?॥१॥इत्यादि। अत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गादन्यत्र यत्नेनोक्तत्वाच्चेति / आह-प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता / नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्रोन वेति सन्देहाधुक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन // 441 // से किंतंसेसवमित्यादि।पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् / तच्च पञ्चविधम्, तद्यथा कार्येणेत्यादि॥.३.४.१.१ 442 // तत्र कार्येण कारणानुमानं यथा हयमश्वं हेषितेन, अनुमिनुत इत्यध्याहारः। हेषितस्य तत्कार्यत्वात्तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण, कार्यद्वारेणोत्पन्नं शेषवदनुमानमुच्यत इति भावः / क्वचित्तुप्रथमतः शङ्खशब्देनेत्यादिदृश्यते, तत्रोक्तानुसारतः सर्वोदाहरणेषु भावना कार्या // 443 // से किं तं कारणेणमित्यादि। इह कारणेन कार्यमनुमीयते, यथा / विशिष्टमेघोन्नतिदर्शनात्कश्चिद्वृष्ट्यनुमानं करोति, यदाह- रोलम्ब गवल व्याल तमालमलिनत्विषः। वृष्टिं व्यभिचरन्तीह, नैवप्रायाः आंदप्रभेदैः पयोमुचः ॥१॥(न्यायमञ्जर्याम्) इति / एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकाशश्च, मित्रोदयाजलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि। तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम् / गंभीर गर्जितारम्भनिर्भिन्नगिरिगह्वराः / रोलम्ब गवल व्याल तमालमलिनत्विषः॥ 1 // त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्ग विग्रहाः। वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः / / इति जयन्त भट्ट विरचितायां न्यायमञ्जयाँ द्वितीय आह्रिके।' इति पू.मु.जम्बु वि. संपादित पुस्तके। (c) धे...। जीवगण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.2 अनुमान गु०प्र० पूर्ववदशेषवदृष्टसाधर्म्यवदिति त्रिभेदाः। तयो सोदाहरणं व्याख्यानम्। // 333 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy