________________ श्रीअनुयोगद्वारं मलधारि | श्रीहेमचन्द्रसूरि वृत्ति [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 440-447 1.3.4 भावप्रमाणम्। युतम्। // 332 // से किं तं अणुमाणेइत्यादि / अनु, लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयतेपरिच्छिद्यते वस्त्वनेनेत्यनुमानम् / तच्च त्रिविधम्, पूर्ववच्छेषवदृष्टसाधर्म्यवच्चेति॥४४०॥से किंतं पुव्ववमित्यादि। विशिष्टं पूर्वोपलब्धं चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः / तथा चाह- माता पुत्त मित्यादि श्लोकः। यथा माता स्वकीयं पुत्रं बाल्यावस्थायां नष्टं युवानसन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वाः, पूर्वदृष्टेन लिङ्गेन केनचित्क्षतादिना प्रत्यभिजानीयात्, मत्पुत्रोऽयमित्यनुमिनुयादित्यर्थः / केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि। स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमषतिलकास्तु प्रतीताः / तदयमत्र प्रयोगः, मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति ।साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत् / नैवम्, हेतोः परमार्थेनैकलक्षणत्वात्तद्बलेनैव गमकत्वोपलब्धेः / उक्तं च न्यायवादिना पुरुषचन्द्रेण, अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् / सत्त्वासत्त्वे हि तद्धमौं, दृष्टान्तद्वयलक्षणे॥१॥तद्धर्माविति, अन्यथानुपपन्नत्वधर्मी / कथम्भूते सत्त्वासत्त्वे इत्याहसाधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये, लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेःशुक्लत्वादिधमैय॑भिचारात् / ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मीयद्यपि क्वचिद्धतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यति, न कश्चिद्विरोध इति भावः। यत्रापिधूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापिसाध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणतावसेया। तथा चाह- धूमादेर्यद्यपि स्याता, सत्त्वासत्त्वे चस्वलक्षणे / अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता॥१॥किंच, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा 'लोहलेख्यं वजं पार्थिवत्वात्, काष्ठादि®त्र (c) 'निश्चीयते(अथ यदि) दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां..' इति रूपेण वर्तते। 0 (रव्य)'इत्यधिकम्। 0 भविष्यतीति। ७'च', इति न वर्तते / गुण प्र०। 1.3.4.1.1 जीवगुण प्र० 1.3.4.1.1.1 ज्ञानगु० प्र०। |1.3.4.1.1.1.2 अनुमान गु०प्र० पूर्ववदशेषवदृष्टसाधर्म्यवदिति त्रिभेदाः। तयोआंदप्रभेदैः सोदाहरणं व्याख्यानम्। // 332 //