________________ शउप श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 330 // क्रमः। पक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः भेदात्रिधा॥ 435 // तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम् / तद्यथा, प्रत्यक्षमनुमानमुपमानमागमः / तत्र अशू व्याप्ता (पान्धा०१२६५, कान्धा०४/२२) वित्यस्य धातोरश्नुते, ज्ञानात्मनाऽर्थान् व्याप्नोतीत्यक्षो जीवः / अश भोजने (पा०धा० 1524, का०धा०८/४३) इत्यस्य वा, अश्नाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव / प्रतिगतम्, आश्रितमक्षं प्रत्यक्षमिति / अत्यादयः क्रान्ताद्यर्थे द्वितीयये (पा०वा० १३३६)(का० रू० 430) ति समासः / जीवस्यार्थसाक्षात्कारित्वेन यज्ज्ञानं वर्तते तत्प्रत्यक्षमित्यर्थः / अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्चन युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात्प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात् / दृश्यते चेयम्, प्रत्यक्षा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यक्षं ज्ञानमिति दर्शनात् / ततो यथादर्शितस्तत्पुरुष एवायम्॥ 436 // तच्च प्रत्यक्षं द्विविधम्, इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च // 437 // तत्रेन्द्रियं श्रोत्रादि तन्निमित्तं सहकारिकारणं यस्योत्पित्सोस्तदलैङ्गिकं शब्द रूप रस गन्ध स्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम्। इदंचेन्द्रलक्षणजीवात्परंव्यतिरिक्तम्, निमित्तमाश्रित्योत्पद्यत इतिधूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात्परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात्संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्गिणा तु नन्द्यध्ययनमन्वेषणीयम् // 438 // इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वाद्यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधिमन:पर्यायकेवलाख्यमिति भावार्थः॥ 439 // से किं तं अणुमाणे? 2 तिविहे पण्णत्ते, तं०- पुव्ववं सेसवं दिटूसाहम्मवं। सूत्रम् 440 // से किं तं पुव्ववं? 2- माता पुत्तं जहा नटुं, जुवाणं पुणरागतं / काई पञ्चभिजाणेज्जा, पुव्वलिंगेण केणइ // 115 // तंजहा७ तन्निर्वृत्तं -प्र० 1 0 लि। 0 या। 0 यं। सूत्रम् 440-447 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.2 अनुमान गु०प्र० पूर्ववदशेषवदृष्टसाधर्म्यवदिति त्रिभेदाः। तयोआंदप्रभेदैः सोदाहरणं व्याख्यानम्। // 330 //