________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। || // 323 // [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 423 स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत् / षष्ठवर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नोगुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः। अथ कोऽयं षष्ठो वर्ग:? कश्च पञ्चम इति। अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः / तत्रैकवर्गस्य वर्ग एक एव भवत्यतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते। द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग: 4, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग:१६, षोडशानां वर्गो द्वेशते षट्पञ्चाशदधिके इति तृतीयो वर्ग: 256, अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: 65536 / अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। अउणावन्नं लक्खा सत्तहिँ चेव य सहस्सा॥१॥ दो य सया छन्नउया पंचमवग्गो इमो विणिद्दिट्ठो त्ति, अङ्कतोऽप्येष दर्श्यते 4294967296, अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते- लक्खं कोडाकोडी ण चउरसीयं भवे सहस्साइं। चत्तारि य सत्तट्ठा हुति सया कोडकोडीणं॥१॥ चोयालं लक्खाई कोडीणं सत्त चेव स सहस्सा। तिन्नि य सया य सत्तरि कोडीणं हुति नायव्वा // 2 // पंचाणउइ लक्खा एगावन्नं भवे सहस्साई। छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो॥३॥ अङ्कतोऽपि दर्श्यते 18446744073709551616, तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा चसति या सङ्ख्या भवति तस्यांजघन्यपदिनोगर्भजमनुष्या वर्तन्ते।साचेयम्, 79228162514264337593543950336 / अयंचराशि: कोटीकोट्यादिप्रकारेण केनाप्यभिधातुंनशक्यतेऽत: पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थं गाथाद्वयम्, छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि / पंचेव तिण्णि नव पंच सत्त तिन्नेव तिन्नेव॥१॥ चउ छ हो चउ एक्को पण दो छक्केक्कगो य अद्वैव / दो दो नव सत्तेव य अंकट्ठाणा पराहुत्ता॥२॥तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनोगर्भजमनुष्या O'वर्गे' त्यधिकम्। 0 रा। डी। चउ। ७ऊ। कालप्रमाणम् / 1.3.3.2 विभा०नि०। औप० काल: |1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो मनुष्याणां बद्धमुक्त शरीरपञ्चकसङ्कया। // 323 //