________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 12 // द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किंत्विदं प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्यावश्यकस्यानुयोगो नेतरस्य, सकल भूमिका। सामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्। उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्त्तमाना अप्यत्र सूत्रम् 5 नाधिकृता अनुयोगावसरत्वाद्, अतस्तत्परिहारेणोक्तमणुओगोत्ति / अयमत्र भावार्थः, अनुयोगस्य प्रक्रान्तत्वात्तद्वक्तव्यता- [6] अङ्गबाह्योप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा निखेवेगट्ठ निरुत्ति विही पवित्तीय केण वा कस्स?। तद्दारभेयलक्खणतदरिहपरिसा त्कालिकरूप स्यावश्यकय सुत्तत्थो॥१॥ (कल्प भा०१५९, दश वै०नि०५) अस्या विनेयानुग्रहार्थं व्याख्या, इहानुयोगस्य निक्षेपो नामस्थापनादिको स्योद्देशादीति वक्तव्यः (1), तथानुयोगस्यैकार्थिकानि वक्तव्यानि यदाह- अणुओगो य निओगो भास विभासा य वत्तियं चेवाएते अणुओगस्स प्रतिज्ञा / यनामा एगट्ठिया पंच॥२॥(आवश्यक नि० 131, कल्प भा० 159)(2), तथानुयोगस्य निरुक्तं वक्तव्यम्, तद्यथा, स्वाभिधायकसूत्रेण सहार्थस्य, अनुनियतः, अनुकूलो वा योगः। अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोग: सूत्रार्थकथनमित्यर्थः / अथवैकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान् सूत्रं त्वणु, ततश्चाणुना सूत्रेण सहार्थस्य योगोऽणुयोगः। तदुक्तम्, नियय(या)णुकूलो जोगो सुत्तस्सऽत्थेण जो य अणुयोगो। सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो॥१॥(३), तथानुयोगस्य विधिर्वक्तव्यः / यथा, प्रथमंसूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायांसोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायांतु प्रसङ्गानुप्रसङ्गागतः सोऽप्यर्थो वाच्यः। तदुक्तम्, सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसतो भणितो। तइओ य निरवसेसो एस O निक्षेप एकार्थो निरुक्तिर्विधिः प्रवृत्तिश्च केन वा कस्य / तवाराणि भेदा: लक्षणं तदर्हा परिषत् सूत्रार्थश्च // 1 // O अनुयोगश्च नियोगो भाषा विभाषा वार्तिकं // 12 // (व्यक्तिक) चैव / एतान्यनुयोगस्य च नामान्येकार्थकानि पञ्च॥ 1 // 0 सा। 0 नियतोऽनुकूलो योगः सूत्रास्यार्थेन यः सोऽनुयोगः। सूत्रं चा(वा)णु तेन योगोऽर्थस्यानुयोगः॥१॥ 9 नियणुकुलो। 0 सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रितो भणितः। तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे॥१॥ 0 सि /