________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 314 // [[1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 419 1.3.3 कालप्रमाणम्। यः प्रदेशराशिरेतावत्सङ्ग्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति / प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव / एवं च सति पूर्वं नारका: सामान्येनैवासङ्खयेया उक्ताः, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्खयेयकं प्रतिनियतस्वरूपं सिद्धं भवति / एवमन्यत्रापि प्रत्येकशरीरिणः सर्वेस्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्याः ।मुक्तवैक्रियाणि मुक्तौदारिकवद्वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात्तद्वन्धस्य / मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः / तैजसकार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि // 418 // उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह (१)असुरकुमाराणं भंते! केवतिया ओरालियसरीरापं०?, गो०! जहा नेरइयाणं ओरालि० तहा भा०, (2) असुरकुमाराणं भंते! के० वेउव्वियंसरीरापं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया यमुक्केल्लया य, तत्थणंजे ते बद्धेल्लया तेणं असंखेजा असंखेन्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो,खेत्ततो असंखेजाओसेढीओपयरस्स असंखिज्जइभागो, तासिणं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलस्स असंखिज्जतिभागो। मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा (3) असुरकु० केवइया आहारगसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धे० मुक्के०, जहा एएसिं चेव ओरा० तहा भाणियव्वा (4) तेयगकम्मगशरीरा जहा एतेसिंचेववेउव्वियसरीरा तहा भाणियव्वा, (5) जहा असुरकुमाराणं तहा जाव थणिअ० ताव भाणियव्वं // सूत्रम् 419 // असुरकुमाराणं भंते! इत्यादि। औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव / नवरमसुरकुमाराणां नारकेभ्यः Oणी। विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमा असुरकुमाराणां बद्धमुक्त शरीरपञ्चकसङ्कया। // 314 //