________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 313 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 418 नानाभवेषु संभवन्ति, तानि त्वौधिकमुक्तौदारिकवद्वाच्यानि। वैक्रियशरीराणि तानि तु बद्धान्येषामसङ्खयेयानि, प्रतिनारकमेकैकवैक्रियसद्भावान्नारकाणांचासङ्खयेयत्वात्तानि च कालतोऽसङ्खयेयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि / क्षेत्रतस्तु प्रतरासङ्खयेयभागवर्त्यसङ्खयेयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति / ननु प्रतरासङ्खयेयभागेऽसङ्खयेययोजनकोट्योऽपि भवन्ति, तत्किमेतावत्यपि क्षेत्रे नभःश्रेणयो भवन्ति ता इह गृह्यन्ते? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि। तासां श्रेणीनां विष्कम्भसूचि:विस्तर श्रेणिः,ज्ञेयेति शेषः। कियतीत्याह- अंगुले त्यादि। अङ्गलप्रमाणे प्रतरक्षेत्रेयः श्रेणीराशिस्तत्र किलासङ्ख्येयानि वर्गमूलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयाँ लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेणयोऽत्र गृह्यन्त इत्यर्थः / इदमुक्तं भवति, अङ्गलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतस्तद्यथा 256, अत्र प्रथमवर्गमूलं षोडश 16, द्वितीय चत्वारः 4, चतुर्भिः षोडश गुणिता जाताश्चतुःषष्टिः 64, एषा चतुःषष्टिरपि सद्भावतोऽसङ्घन्येयाः श्रेणयों मन्तव्याः, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। अहव णमित्यादि, णमिति वाक्यालङ्कारे, अथवान्येन प्रकारेण प्रस्तुतोऽर्थ उच्यत इत्यर्थः ।अहवणत्ति क्वचित्पाठः, सचैवं व्याख्यायते, अथवा नैष पूर्वोक्तः प्रकारोऽपितु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयत इति भावः। समुदितो वायंशब्दोऽथवाशब्दस्यार्थे वर्तते / तदेव प्रकारान्तरमाह- अंगुलबीयवग्गमूलघणेत्यादि। अङ्गलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यवितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घनश्चतुःषष्टिलक्षणस्तत्प्रमाणास्तत्सङ्ख्याः श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यतेऽर्थस्तु स एवेति / तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्खयेयानां श्रेणीनां ®चौधिक। (c) 'यानी' त्यधिकम् / 0 ...या: योजन। Oण्यो। ली। 0 ण्यो। कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० कालः 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमा नरकदण्डके बद्धमुक्त शरीरपश्चक साया। / // 313 //