SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 309 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 414-417 कालप्रमाणम्। कालावस्थानाभावात्स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चिद्पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतयानन्तशः परिणमय्य न मुक्तः। ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभाग इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानांसर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वाद् / अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्त एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि ग्रामो दग्ध: पटो दग्धइत्यादिवदवयवेसमुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते / ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात्तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचारादेतेषां च भेदानां प्रकृतशरीरपरिणामत्यागेऽन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद्यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिव्यवच्छिद्यन्त इति स्थितम् / तदेवमोघत उक्तौदारिकशरीरसङ्ख्या, विभागतोऽप्युपरिष्ठात्क्रमप्राप्तामिमां वक्ष्यति 1 // 413 // अथौघत एव वैक्रियसङ्ख्यामाह__ केवतिया णं भंते! वेउव्वियसरीरा पं०? गो०! दुविहा पं०, तं०- बद्धेलया य मुक्केल्लया य। तत्थ णंजे ते बोल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालओ,खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजइभागो। तत्थ णंजे ते मुक्केल्लया ते णं अणंता, अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एतेवि भाणियव्वा ।।सूत्रम् 414 // ७...तस्तूप...। विभा०नि०। औप० काल: |1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो जीवाजीवोभयरूपाणां वैक्रियादिशरीराणामोघतः बद्धमुक्त सङ्कया। // 309 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy