________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 308 // शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 405-413 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। |1.3.3.2.1-2 इति चेत् / को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति। आह, [[2] उपक्रमः / भवत्वेवम्, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात्कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषांशरीराण्यप्यसङ्खचातान्येव, साधारणशरीरिणस्तु विद्यन्तेऽनन्ताः किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्खयेयान्येवेति / तत्थ णंजे से मुक्केल्लयेत्यादि। भवान्तरसङ्कान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानिप्राप्यन्ते। अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदंतत: कालेन विशेषयति, प्रतिसमयमेकैकापहारेऽनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः। अथ क्षेत्रतो विशिनष्टि, खेत्तओ अणंता औप० काल: लोगत्ति, क्षेत्रतःक्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः / द्रव्यतो नियमयति, सूक्ष्मक्षेत्रपल्यो पम सागरोपमा अभवसिद्धिएहिमित्यादि। अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि, सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनि। आह, यद्येवंड यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञा- औदारिकादिपनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति?, नैतदेवम्, यदि तत्समवयानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवंततःप्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानीति प्रतिपत्तव्यमिति / पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्त उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि? यद्याद्यः पक्षस्तर्हि तेषामनन्त त्वे गमनात्तत्त्यक्तं। जीवाजीवोभयरूपाणि, पञ्चशरीराणि, चतुर्विशतिदण्डकेषु च तेषां सइया निरूपणम्। // 308 //