________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 307 // क्रमेण शेषशरीराणामिति // 405 // तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह- नेरइयाणं भंते! कइ सरीरेत्यादि पाठसिद्धमेव // 406-12 // यावत्केवइया णं भंते! ओरालियसरीरेत्यादि। कियन्ति कियत्सङ्ख्यान्योदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरम्, गोयमा दुविहे त्यादि। औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य। इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद्रव्येणाभव्यादिना वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणिप्रतरादिना, क्वचित्तु कालेन समयावलिकादिना, भावेन तुन वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् / तत्र बद्धानामौदारिकशरीराणां कालतः क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लयेत्यादि / इह नारकदेवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषामत: पारिशेष्यात्तिर्यमनुष्यैस्तथाविधकर्मोदयाद्यानि बद्धानि गृहीतानीत्यर्थः / पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीति यावत् / तानि सामान्यत: सर्वाण्यङ्ग्येयानि / न ज्ञायते तदसङ्खयेयं कियदपीत्यतो विशिनष्टि, असंखेज्जाहि मित्यादि / प्रतिसमयं यद्येकैकं शरीरमपह्रियते तदासनयेयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्खयेयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः / तदेतत्कालतो मानमुक्तमथ क्षेत्रतस्तदाह- खेत्तओ असंखेज्जा लोगत्ति। इदमुक्तं भवति, प्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकैकं शरीरं व्यवस्थाप्यते तयसङ्खयेया लोकास्तैर्धियन्ते, एकैकस्मिन्नपिनभःप्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसङ्खयेया लोका भ्रियन्त एव, केवलं शरीरस्य जघन्यतोऽप्यङ्खयेयप्रदेशावगाहित्वादेकस्मिन्प्रदेशेऽवगाहः सिद्धान्ते निषिद्ध इति नेत्थमुच्यते / असत्कल्पनयोच्यतामेवमपि को दोष 0...श्येयोत्स... 0 यद्येकं। 0 तदाऽसङ्ख्येया। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 405-413 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमा जीवाजीवोभयरूपाणि, औदारिकादिपञ्चशरीराणि, चतुर्विंशतिदण्डकेषु च तेषा सहया निरूपणम्। // 307 //