SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। द्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 287 // सूत्रम् 368-376 1.3.3 कालप्रमाणम्। 1.3.3.2 कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः / अत एव च नो पूइत्ताए हव्वमागच्छेज्जत्ति, न पूतित्वेन कदाचिदप्या- [1] उपक्रमः। गच्छेयुः, न कदाचिद्दुर्गन्धितां प्राप्नुयुरित्यर्थः / तओ णं ति, तेभ्यो वालाग्रेभ्यः समये समय एकैकं वालाग्रमपहृत्य कालो मीयत इति शेषः / ततश्च जावइएणमित्यादि। यावता कालेन स पल्यः क्षीणो वालाग्रकर्षणात्क्षयमुपागतः, आकृष्टधान्य द्रव्यादिचतुर्भेदाः कोष्ठागारवत् / तथा नीरएत्ति, निर्गतरजःकल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्तथा निल्लेवें त्ति, अत्यन्तसंश्लेषा-2 तन्मयता गतवालाग्र लेपापहारान्निर्लेपः, अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवद् / एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः / एकार्थिका वैते शब्दा।अत्यन्तविशुद्धिप्रतिपादनपराः। वाचनान्तरदृश्यमानंचान्यदपि पदमुक्तानुसारेण व्याख्येयम्। एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति / एतच्च पल्यान्तर्गतवालाग्राणां सङ्खयेयत्वात्सङ्खयेयैः समयैस्तदपहार-2 सम्भवात्सङ्खयेयसमयमानं द्रष्टव्यम् / से तमित्यादि निगमनम् / व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह- एएसिंह पल्लाणगाहा। एतेषामनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं भवतीति तात्पर्यम् // 107 // 372 // शिष्यः पृच्छति एतैर्व्यावहारिकपल्योपमसागरोपमैः किं प्रयोजनम्? कोऽर्थः साध्यते? अत्रोत्तरम्, नास्ति किश्चित्प्रयोजनम्।। निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना, प्रज्ञाप्यतेप्ररूपणामात्रं क्रियत इत्यर्थः। ननु निरर्थकस्य प्ररूपणयापित किं कर्तव्यम्? अतो यत्किञ्चिदेतत् / नैवम्, अभिप्रायापरिज्ञानाद्, एवं हि मन्यते, बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्यादतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति / तर्हि नास्ति किञ्चित्प्रयोजनमित्युक्तमसत्यं प्राप्नोतीति चेत् / नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वात् / एवं बादराद्धापल्योपमादावपि वाच्यम्॥३७३॥से किं तं सुहमेइत्यादि 7 निल्लेवित्ति। 0त। औप० कालस्य 1.3.3.2.1-2 पल्यो० सागा पल्यो०स्य / उद्धार, 1.अद्धा, iii. क्षेत्रेति। 1.उद्धारस्य 1. सूक्ष्म i.ii व्यवहारिकेति। द्वीपसमुद्र सहयाप्रमाण प्रयोजनम्। // 287 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy