________________ शा० श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 286 // [1] उपक्रमः। उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः ततस्तत्प्रधानंपल्योपममद्धापल्योपमम्। तथा क्षेत्रमाकाशं तदुद्धारप्रधानंपल्योपमं क्षेत्रपल्योपमम्॥३६९॥ तत्राद्यं निरूपयितुमाह-से किंतं उद्धारपलिओवमे, इत्यादि। उद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथावालाग्राणांसूक्ष्मखण्डकरणात्सूक्ष्मंच, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानांग्रहणात्प्ररूपणामात्रव्यवहारोपयोगित्वाद्व्यावहारिक चेति॥ 370 // तत्र यत्सूक्ष्म तत्स्थाप्यंतिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणायाः, पश्चात्प्ररूपयिष्यत इति भावः // 371 // तत्र यत्तद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः / तदेव विवक्षुराह- से जहानामए, इत्यादि / तद्यथानाम धान्यपल्य इव पल्यः स्यात्स च वृत्तत्वादायामविष्कम्भाभ्यां दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गलक्रमनिष्पन्नं योजनम्। ऊर्ध्वमुच्चत्वेनापि (योजनम्) तद्योजनं त्रिगुणं सविशेष परिरयेणंभ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्न्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्न्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः।स पल्यः, एक्काहियबेहियतेहियत्ति,षष्ठीबहुवचनलोपादेकाहिक व्याहिक व्याहिकीनामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः। तत्र मुण्डिते शिरस्येकेनाला यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु योत्तिष्ठन्ति ता व्याहिक्यस्त्रिभिस्तुत्र्याहिक्यः / कथम्भूत इत्याह- संमृष्ट आकर्णं पूरित: सन्निचित: प्रचयविशेषानिबिडीकृतः / किंबहुना? एवं भूतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेन वायुरपहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रामत इत्यर्थः / नो कुच्छेज्जत्ति, नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुः। अत एव च नो परिविद्धंसेज्जत्ति, इदं पदं न वर्तते। 0 परिक्खेवेणं / 'तु'। 0एगाहियबेयाहियतेआहिय। ॐ त्र्याहिकाणामु..। 9 ऊर्ध्वारोहप्राधान्यान्नात्रात्मनेपदमिति सम्भावना / (c) एवंभूतोऽसौ भृतो येन....10 क्रमेते इत्यर्थः। / सूत्रम् 368-376 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि० औप० कालस्य 1.3.3.2.1-2 पल्यो० साग०॥ पल्यो०स्य i. उद्धार, Jilli. क्षेत्रेति। i. उद्धारस्य 1. सूक्ष्म व्यवहारिकेति। द्वीपसमुद्र सङ्घयाप्रमाण प्रयोजनम। // 286 //