________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 280 // शा० उपक्रमः। 1.3 प्रमाणम्। 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। समयप्ररूपणा। कृत्वेत्यर्थः / हस्तमात्रमपसारयेत्पाटयेदित्यर्थः। तत्रैवं स्थिते प्रेरकः शिष्यः, प्रज्ञापयतीति प्रज्ञापकोगुरुस्तमेवमवादीत्, किम्? [1] उपक्रमः / येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति?, प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति / कस्मादिति पृष्ट उपपत्तिमाह- यस्मात्सङ्खयेयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिका निष्पद्यते। तत्र चउवरिल्लेत्ति, उपरितने सूत्रम् 366 तन्ता अच्छिन्नेऽविदारिते हेढिल्लेत्ति, आधस्त्य तन्तु न छिद्यते, अतोऽन्यस्मिन्काल उपरितनस्तन्तुः छिद्यतेऽन्यस्मिन्काले आधस्त्यः तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्, येन कालेन तेन तुन्नागदारकेण तस्याः पटसाटिकाया उपरितनस्तन्तुश्छिन्न: स समय:? किं भवतीति शेषः / अत्र प्रज्ञापक आह न भवतीति, कस्मात्? यस्मात्सङ्ख्येयानां पक्ष्मणां लोके प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याधुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम् / नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः, तैषामनन्तानां यःसमुदयः संयोगस्तेषां समुदयानां यान्योऽन्यानुगतिरसौ समितिः, तासां समागमेनैकवस्तुनिर्वर्तनाय मीलनेनोपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः / तस्मादसावुपरितनैकपक्षमच्छेदनकाल: समयो न भवति / कस्तर्हि समय इत्याह- एत्तों णमित्यादि। एतस्मादुपरितनैकपक्ष्मच्छेदनकालात्सूक्ष्मतर: समय: प्रज्ञप्तः हे! श्रमणायुष्मन्निति। ___ अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तāकस्मिन्नपि पक्ष्मणि विदार्यमाणेऽनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्खयेयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्खयेयकस्यैव प्रति Oऽविअ', इत्यधिकम्। // 280 //