SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 273 // [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदाङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गलविषया सूचिर्जायते / इदमुक्तं भवति, अर्द्धतृतीयाङ्गलविष्कम्भे प्रमाणाङ्गले तिम्रः श्रेणयः कल्प्यन्ते, एका, अङ्गुलविष्कम्भाशतचतुष्टयदीर्घा, द्वितीयापितावन्मानैव, तृतीयापि दैर्येण चतुःशतमानैव विष्कभस्त्वर्द्धाङ्गलम् / ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गलप्रमाण: संपद्यते। तथा च सत्यङ्गलशतद्वयदीर्घाऽङ्गलविष्कम्भेयमपि सिद्धा। ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापन उत्सेधागलतोऽङ्गलसहस्रदीर्घाऽङ्गलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति / तत इमां सूचिमधिकृत्योत्सेधाङ्गलात्तत्सहस्रगुणमुक्तम् / वस्तुतस्तु चतुःशतगुणमेव / अत एव पृथ्वी पर्वत विमानादिमानान्यनेनैव चतुःशतगुणेनार्द्धतृतीयाङ्गललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणयाङ्गलविष्कम्भया सूच्येति // 348 // शेषं भावितार्थं यावत्पुढवीणं ति, रत्नप्रभादीनाम् कंडाणंति, रत्नकाण्डादीनाम्, पातालाणंति, पातालकलशानाम् भवणाणंति, भवनपत्यावासादीनाम् भवणपत्थडाणंति भवनप्रस्तटा नरकप्रस्तटान्तरे तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम् / निरयपत्थडाणंति तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एक्को ये (बृहत्संग्रहणी० 253) त्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम् / नवरं टंकाणंति छिन्नटङ्कानाम्, कूडाणंति रत्नकूटादीनाम्, सेलाणंति मुण्डपर्वतानाम्, सिहरीणंति पर्वतानामेव शिखरवताम्, पब्भाराणंति तेषामेवेषन्नतानाम्, वेलाणंति जलधिवेलाविषयभूमीनाम्, उद्वेधोभूमिमध्येऽवगाहः, तदेवमंङ्गुलविहत्थिरयणीत्यादिगाथोपन्यस्तान्यङ्गलादीनि योजनावसानानि पदानि व्याख्यातानि॥ 359-60 // साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह0 विष्कम्भेत्वर्धा.... | 0 अन्तर्भूतणिजर्थत्वात् संपाद्यते इति। 0 भूमिनामूर्ध्वाधो(मुद्वेधो)भूमिमध्ये .... / सूत्रम् |358-360 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गलप्रमाणम्। 1.3.2.2.1.3 प्रमाणाङ्गुलम्। // 273 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy