SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 271 // [2] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् |1.3.2 तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः। तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् / निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् / दिक्त्रयभेदभिन्नसमुद्रत्रय हिमवत्पर्वतपर्यन्त सीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः। चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एक: कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते / एतानि च मधुरतृणफलादीनि भरत-8 |358-360 चक्रवर्तिकालसम्भवीन्येव गृह्यन्तेऽन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्तुल्यं चेष्यते क्षेत्रप्रमाणम्। तदिति / चत्वारि चतसृष्वपि दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत्षट्तलम्। अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः कोट्यो यत्र तवादशास्रिकम्। कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम् / अधिकरणिःसुवर्णकारोपकरणं तत्संस्थानेन संस्थितंतत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तप्ररूपितम् / तस्य काकणीरत्न प्रमाणाङ्गुलम् / स्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यस्रय एकैकस्योत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः / अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गलप्रमाण इत्युक्तं भवति / यैव च कोटिरूर्वीकृताऽऽयामं प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कमभाग्भवतीत्यायाम विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्हणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति / तदेवं सर्वत उत्सेधाङ्गलप्रमाणमिदं सिद्धम् / यच्चान्यत्र, चउरंगुलप्पमाणा सुवण्णवरकागणी नेये (बृहत्सं० ३०२)ति श्रूयते, तन्मतान्तरंसम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति / तदेकैककोटिगतमुत्से 0 कि। * कृत्य आयामं। 0 गो। 0 चतुरङ्गुलप्रमाणा सुवर्णवरकाकिणी ज्ञेया। 1.3.2.2.1 विभागनिष्पन्न मङ्कुलप्रमाणम्। |1.3.2.2.1.3 // 271 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy