________________ [1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम्। | श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 256 // सूत्रम् 1.3.2 1.3.2.2.1 विभागनिष्पन्न समितिसमागमः, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते / इदमुक्तं भवति, निश्चयनयः, कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च / भवति परमाणुः / एकरसवर्णगन्धो द्विस्पर्श: कार्यलिङ्गश्च ॥१॥इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति।यस्त्वेतैरनेकैर्जायते तं सांशत्वात्स्कन्धमेव व्यपदिशति / व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति द्रव्यादिचतुर्भेदाः तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिक: परमाणुरुक्तः॥ 342 / / न च वक्तव्यम्, अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयति से णं 8 |339-343 भंते! इत्यादि। स भदन्त! व्यावहारिकपरमाणुः कदाचिदसिः खड्गं तद्धारां वावगाहेत, आक्रामेद्? अत्रोत्तरम् हन्तावगाहेत, क्षेत्रप्रमाणम्। हन्तेति कोमलामन्त्रणेऽभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् / पुनः पृच्छति, स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत वा, अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत? उत्तरमाह- नायमर्थः समर्थः, मङ्गुलप्रमाणम्। नैतदेवमिति भावः। अत्रोपपत्तिमाह- न खलु तत्र शस्त्रंक्रामति। इदमुक्तं भवति, यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्टादयः उत्सेधाङ्गलशस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात्तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: निष्पत्तिः सूक्ष्मव्यवहापरमाणुह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः / पुनरप्याह- स भदन्ता रिकपरमाणुः। निकायस्य वह्नर्मध्यमध्येनान्तरे व्यतिव्रजेद्गच्छेद्? हन्तेत्याधुत्तरं पूर्ववत्, नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम्। पुनः पृच्छति से णं भंते! पुक्खलेत्यादि / इदमपि सूत्रं पूर्ववद्भावनीयम् / नवरं पुष्करसंवर्तस्य महामेघस्येयं प्ररूपणा, इहोत्सर्पिण्यामेकविंशति // 256 // वर्षसहस्रमाने दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघा: प्रादुर्भ |1.3.2.2.1.2 तेति।