SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 252 // 336-338 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्कलप्रमाणम्। सम्भवीन्यवट हृदादीनि मीयन्त इति सण्टङ्कः। तत्रावट: कूपः। तडागःखानितो जलाशयविशेषः। वाप्य: चतुरस्रा जलाशय- उपक्रमः / विशेषाः / पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा। दीर्घिका: सारिण्यः / सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते। सर: स्वयंसम्भूतो जलाशयविशेष एव / सरपंतियाउत्ति, पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः। सरसरपंतियाउत्ति, द्रव्यादिचतुर्भेदाः यासु सरःपङ्कितष्वेकस्मात्सरसोऽन्यत्र ततोऽप्यन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सरःसरःपङ्क्तयः / बिलपङ्क्तयः सूत्रम प्रतीताः / माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामाः। पुष्पफलादिसमृद्धानेकवृक्षसङ्कलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि। सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननान्यथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपिवनेभ्यः पर्यन्तवर्तीनि काननानि।शीर्णवृक्षकलितानि वा काननानि। एकजातीयवृक्षाकीर्णानि वनानि। अनेकजातीयैरुत्तमैश्चपादपैराकीर्णानि वनखण्डानि। एकजातीयाना 1.3.2.2.1.1 मितरेषां वा शाखिना पङ्क्तयो वनराजयः। सन्तो भजन्त्येतामिति सभा, पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा / अध आत्माङ्गल प्रयोजनम्, उपरि च समखातरूपा खातिका। अधः सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा। प्राकारोपर्याश्रयविशेषा अट्टालकाः। कूपद्रहादिवस्तू न्यद्यकालीनानि गृहाणां प्राकारस्य चान्तरेऽष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका। प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि। राज्ञां च योजनानि मीयन्ते तस्य देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादाः। गृहाणिसामान्यजनानां सामान्यानि वा शरणानितृणमयावसरिकादीनि / लयनान्युत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्पटिकाद्यावासस्थानं वा। आपणा हट्टाः। नानागृहाध्यासितस्त्रिकोणो त्रयोभेदाः। भूभागविशेषः शृङ्गाटकम्, स्थापना A, त्रिपथसमागमो वा शृङ्गाटकम्। त्रिकं तु त्रिपथसमागम एव, तद्यथा / , प्रभूतगृहाश्रयचतुरस्रो भूभागश्चतुष्कम्, यथा - चतुष्पथसमागमो वा चतुष्कम्। चत्वरं चतुष्पथसमागम एव +, षट्पथसमागमो वा 0 तत्स्थाने 'तरूणां' / 0 नानाहट्टगृहा' इति। 0 ‘तथे'त्यधिकम्। (द्वा)' इत्यधिकम्। सूचिप्रतरघन // 252 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy