SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ [[1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 250 // दर्शयन्नाह- माणुम्माण गाहा। अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाश्चक्रवर्त्यादयो मुणितव्या इति सम्बन्धः। तथा लक्षणानिशङ्खस्वस्तिकादीनि, व्यञ्जनानिमषीतिलकादीनि, गुणा: क्षान्त्यादयस्तैरुपेताः। तथोत्तमकुलान्युग्रादीनि तत्प्रसूता इति गाथार्थः॥९६॥अथात्माङ्गलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाह-हुंति पुण गाहा। भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयोऽष्टशतमङ्गुलानां उब्विद्धा उन्मिता उच्चैस्त्वेन, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः। आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति / चउरुत्तर मज्झमिल्लाउ त्ति, तेनैवाङ्गुलेन चतुरुत्तरमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः॥९७॥येऽष्टोत्तरशताङ्गलमानाद्धीना अधिकावा ते किं भवन्तीत्याह, हीणा वा गाहा। अष्टोत्तरशताङ्गलमानाद्धीना वाधिका वा ये खलु, स्वरः सकलजनादेयत्व प्रकृतिगम्भीरतादिगुणालङ्कतो ध्वनिः, सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेषः, तैः परिहीणाः सन्तस्ते, उत्तमपुरुषाणामुपचितपुण्यप्राग्भाराणामवशा अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयान्ति।स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं न केवलमिति लक्ष्यते / भरतचक्रवादीनां स्वाङ्गलतो विंशत्यधिकाङ्गलशतप्रमाणानामपि निर्णीतत्वान्महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गलप्रमाणत्वाद्, भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम्, अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु / गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठित॥१॥मिति गाथार्थः॥९८॥३३४ // एतेनाङ्गलप्रमाणेन षडङ्गलानि पादः। पादस्य मध्यतलप्रदेश: षडङ्गलविस्तीर्णः, पादैकदेशत्वात्पादः / द्वौ च युग्मीकृतौ पादौ वितस्तिः। द्वे च वितस्ती रत्निः हस्त इत्यर्थः। रलिद्वयं 0ङ्गुलम्(लानां)। 0'वा', इत्यधिकम्। 0 नाः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 330-335 1.3.2 क्षेत्रप्रमाणम्। |1.3.2.2 विभागनिष्पन्नम् अलवितस्तिरलिधन्वादि भेदाः। . // 250 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy