________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 249 // 330-335 1.3.2 1.3.2.2 भागास्तैर्निष्पन्नं प्रदेशनिष्पन्नम्। विभाग:पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नम्॥३३०॥ तत्रैकप्रदेशावगाढाद्यसङ्खयेय- [1] उपक्रमः। प्रदेशावगाढपर्यन्तंप्रदेशनिष्पन्नम् / एकप्रदेशाधवगाढताया एकादिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वादत्रापि प्रदेशनिष्पन्नता भावनीया। 1.3 प्रमाणम्। प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान(ण)त्वादिति // 331 // विभागनिष्पन्नं त्वङ्गलादि, तदेवाहअंगुलविहत्थिगाहा। अङ्गलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति // 332 / / तत्राङ्गलस्वरूपनिर्धारणायाह- सूत्रम् से किं तं अंगुले, इत्यादि। अंगुलं त्रिविधं प्रज्ञप्तं तद्यथा, आत्माङ्गुलम्, उत्सेधाङ्गुलम्, प्रमाणाङ्गुलम्॥३३३॥ तत्र ये यस्मिन्काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्ध्यत्रात्मा गृह्यते, आत्मनोऽङ्गलमात्माङ्गलम् / अत एवाह- जे क्षेत्रप्रमाणम् / णमित्यादि। ये भरतादयः प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गलमात्माङ्गलमुच्यत इति शेषः / इदं च पुरुषाणां विभागनिष्पन्नम् कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणंद्रष्टव्यम् / अनेनैवात्माङ्गलेन पुरुषाणांप्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अङ्गुलवित स्तिरत्निअंगुलेणं दुवालसेत्यादि / यद्यस्यात्मीयमङ्गलं तेनात्मनोऽङ्गलेन द्वादशाङ्ग्लानि मुखं प्रमाणयुक्तं भवति / अनेन च मुखप्रमाणेन धन्वादि भेदाः। नव मुखानिसर्वोऽपि पुरुषः प्रमाणयुक्तो भवति। प्रत्येकं द्वादशाङ्गलैर्नवभिर्मुखैरष्टोत्तरंशतमङ्गलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः / अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह- द्रोणिक: पुरुषो मानयुक्तो भवति। द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेनजलस्योनांवा तां पूरयति स द्रोणिकः पुरुषोमानयुक्तो निगद्यत इति भावः / इदानीमेतस्यैवोन्मानयुक्ततामाह-सार पुद्गलरचितत्वात्तुलारोपितः // 249 // सन्नद्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति। तत्रोत्तमपुरुषा यथोक्तैः प्रमाणमानोन्मानैरन्यैश्च सवैरेव गुणैः सम्पन्ना एव भवन्तीत्येत®से किं तं पएसनिष्फण्णे' इत्यधिकम् /