SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। नुयोग इति। अणुओगो य पवत्तइ // सूत्रम् 2 // भूमिका। तत्थेत्यादि / तत्रतस्मिज्ञानपञ्चक आभिनिबोधिकावधिमन:पर्यायकेवलाख्यानि चत्वारि ज्ञानानि ठप्पाइंतिस्थाप्यानि, सूत्रम् 2 असंव्यवहार्याणि / व्यवहारनयो हि यदेव लोकस्योपकारे वर्त्तते तदेव संव्यवहार्यं मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु / [3] पञ्चज्ञाननिवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि। यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि ज्ञानस्यैवालोकोपकारीणीति भावः / यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह- ठवणिज्जाइं ति ततः स्थापनीयान्येतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाधवसरेऽधिकार इत्यर्थः / अथवा स्थाप्यानि, अमुखराणि, उद्देशसमुद्देशा नुज्ञानां श्रुतस्व स्वरूपप्रतिपादनेऽप्यसमर्थानि / न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव पसमयान,शवानरम प्रत्ययानिसप्तश्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थम्, स्वरूपकथनं चेदमत: स्थाप्यानि। अमुखराणि यानि चत्वारि वन्दनकानि, ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह- अनुपयोगित्वात्स्थापनीयानि, अनधिकृतानि / यत्रैव ह्युद्देशसमुद्देशानु- अनुयोग विधिश्च। ज्ञादयः क्रियन्ते तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेवेत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानीत्यतोऽत्रानधिकृतानि / अत्राह- अनुयोगो व्याख्यानम्, तच्चशेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वम्? ननु समयचर्यानभिज्ञतासूचकमेवेदं वचः, यतो हन्त तत्रापितज्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, सच श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति। अथवा स्थाप्यानि, गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि / एतदेव विवृणोति, स्थापनीयानीति, एकार्थों द्वावपि / इदमुक्तं भवति, अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नत्वाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानम्, तच्च गुरोरन्तिके गृह्यमाणं
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy