SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 4 // नुयोग इति। तज्ज्ञानंच मन:पर्यायज्ञानम् / केवलम्, संपूर्णज्ञेयविषयत्वात्संपूर्णम्, तच्च तज्ज्ञानंच केवलज्ञानमिति ॥अवग्रहादिभेदचिन्ता भूमिका। त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वान्नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति। अनेन च शास्त्रस्यादावेव ज्ञानपञ्चको सूत्रम् 2 उत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात्। [3] पञ्चज्ञानअभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनाम्न एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमान- मध्ये श्रुत ज्ञानस्यैवात्वात् / प्रयोजनं तु प्रकरणकर्तृश्रोत्रोः प्रत्येकमनन्तरपरम्परभेदाच्चिन्तनीयम् / तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजन श्रोतुश्चप्रकरणार्थपरिज्ञानम्, परम्परं तु द्वयोरपि परमपदप्राप्तिः / इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते। उद्देशसमुद्देशा नुज्ञानां श्रुततथाहि-सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्ति: प्रतीतैव / श्रोतापिगुरुभ्य: प्रस्तुत प्रत्ययानि सप्तप्रकरणा) विजानाति, तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयान्, वन्दनकानि, उपादायोपदेयान्, संप्राप्य प्रकर्षवच्चरणकरणम्, कृत्वातिदुष्करतपश्चरणम्, अनुभूय विशदकेवलालोकत: सकलत्रिलोकी विधिश्च। तलसाक्षात्करणम्, प्रविश्य सकलकर्मविच्छेदकर्तृशैलेशीकरणम्, सकलमुक्तजनशरणं परमपदमधिगच्छतीति / सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव / वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थतूपेय इति / एवं च समस्तशास्त्रकाराणां समय: परिपालितो भवति / उक्तं च तैः, संबंधऽभिधेय पओयणाई तह मंगलं च सत्थम्मि। सीसपवित्तिनिमित्तं निविग्घत्थं च चिंतिज्जे॥१॥ त्यलं विस्तरेण // 1 // यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह तत्थ चत्तारि णाणाइंठप्पाइं ठवणिज्जाई णोउद्दिसंति णो समुद्दिसंतिणो अणुण्णविखंति, सुयनाणस्स उद्देसो समुद्देसो अणुण्णा (r) सम्बन्धाभिधेयप्रयोजनानि तथा मङ्गलं च शास्त्रे। शिष्यप्रवृत्तिनिमित्तं निर्विघ्नार्थं च चिन्तयेत् // 1 // 7 णो उद्दिसिजंति णो समुद्दिसिजंती'ति प्र० / अनुयोग
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy