SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भूमिका। सूत्रम् 1 श्रीअनुयोगद्वारंमलधारि |श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 3 // मङ्गलसूत्रम्। पञ्चज्ञानस्वरूपम्। पञ्चविधम्, पञ्चप्रकारमित्यर्थः / पण्णत्तं ति प्रज्ञप्तमर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः। अनेन सूत्रकृतात्मनः स्वमनीषिका परिहृता भवति। अथवा प्राज्ञात्तीर्थकराद्, आप्तं प्राप्तं गणधरैरिति प्राज्ञाप्तम् / अथवा प्राज्ञैर्गणधरैस्तीर्थकराद्, आत्तं गृहीतमिति प्राज्ञात्तम् / प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तम् प्रज्ञाप्तम् / न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव / ह्रस्वत्वं सर्वत्र प्राकृतत्वादित्यवयवार्थः। अक्षरयोजना त्वेवम्, ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः / कतिविधमित्यत्रोच्यते, पञ्चविधमिति // तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह-तंजहे त्यादि / तद्यथेत्युपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मन:पर्यायज्ञानं केवलज्ञानं चेति / तत्र, अभीत्याभिमुख्ये, नीति नैयत्ये। ततश्चाभिमुखः, वस्तुयोग्यदेशावस्थानापेक्षी नियतः, इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधोऽभिनिबोध इति भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम्, अभिनिबुध्यत आत्मना स इत्यभिनिबोध इति कर्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनोवा, स एवाभिनिबोधिकमिति तथैव / आभिनिबोधिकंच तज्ज्ञानंचाभिनिबोधिकज्ञानम्, इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः / श्रवणं श्रुतम्, अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् / अथवा श्रूयत इति श्रुतम्, शब्दः, स चासौ कारणे कार्योपचाराज्ज्ञानं च श्रुतज्ञानम्। शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते / अवधानमवधिः, इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम्। अथवावधिः, मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् ।संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि. मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते / तेषां मनसां पर्यायाः, चिन्तनानुगुणाः परिणामाः तेषु ज्ञानं मन:पर्यायज्ञानम् / अथवा यथोक्तस्वरूपाणि मनांसि पर्येति, अवगच्छतीति मनःपर्यायमिति कर्मण्यण (पा०३-२-१), तच्च // 3 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy