SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र सूत्रम् 1 सूरि वृत्ति युतम्। | // 2 // मङ्गलसूत्रम्। पञ्चज्ञानस्वरूपम्। B इहातिगम्भीरमहानीरधिमध्यनिपतितानर्घ्यरत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपिलब्ध्वा त्रिभुवनैकहितश्रीमज्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं प्रतिपद्य चरणधर्ममधीत्य विधिवत्सूत्रं समधिगम्य तत्परमार्थं विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम्, तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात् / स चानुयोगो यद्यप्यनेकग्रन्थविषयःसंभवति, तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदंचोपकारित्वात्प्रथममनुयोगद्वाराणामसौ विधेयः। जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रम-निक्षेपा-नुगम-नयद्वारैर्विचार्यते। प्रस्तुतशास्त्रेच तान्येवोप्रकमादिद्वाराण्यभिधास्यन्तेऽतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः। सच यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः, तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वान्मन्दमतिनापि मयासाधारणश्रुतभक्तिजनितौत्सुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते ॥अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात्सम्भाव्यमानविघ्नत्वात्तदुपशमार्थं शिष्टसमयपरिपालनार्थं चादौ मङ्गलरूपंसूत्रमाह नाणं पंचविहं पण्णत्तं, तंजहा- आभिणिबोहियणाणं सुयणाणं ओहिणाणं मणपज्जवणाणं केवलणाणं ॥सूत्रम् 1 // नाणं पञ्चविह मित्यादि / व्याख्या, ज्ञातिर्ज्ञानम्, कृत्यल्युटो बहुल (पा० 3-3-113) मिति वचनाद्भावसाधनः / ज्ञायते, परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानम्; जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानम्, ज्ञानावरणकर्मक्षयोपशम-2 क्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः / पञ्चविहं ति; पञ्चेति सङ्ख्यावचनः, विधानानि विधाः भेदाः पञ्चविधा अस्येति णमो अरिहंताणं' पाठान्तरेण णमो अरहंताणं' इत्यादि नमस्कारमहामन्त्र पाठो पुस्तके आदौ वर्तते / तच्च चूर्णिगतपाठानुसारेणेति तत्र कौंसान्तर्गत उपन्यस्तः।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy