________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 247 // पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति, सेतं पडिमाणे।सेतं विभागनिष्फण्णे। सेतं दव्वपमाणे ॥सूत्रम् 329 // // 132 // ) से किं तं पडिमाणे, इत्यादि। मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम्। तत्र गुञ्जाचणोठिया 1 / सपादा गुञ्जा काकणीस त्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयन वा निवृत्तो निष्पाव: 3 / त्रयो निष्पावा: कर्ममाषक: 4 / द्वादश कर्ममाषका एको मण्डलक: 5 / षोडश कर्ममाषका एक सुवर्ण: 6 / अमुमेवार्थं किञ्चित्सूत्रेऽप्याह-पंच गुंजाओ, इत्यादि। पञ्च गुजा एकः कर्ममाषकः। अथवा चतस्रः काकण्य एकः कर्ममाषक:। यदिवा त्रयो निष्पावकाएकः कर्ममाषकः / इदमुक्तं भवति, अस्य प्रकारत्रयस्य मध्ये येन केनचित्प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति / एवं चउक्को कम्ममासओ, इत्यादि। चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम् / ते द्वादश कर्ममाषका एको मण्डलक:। एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको 'भवती'ति शेषः, भावार्थ:पूर्ववदेव / षोडशकर्ममाषका: सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थः स एव // 328 // एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थम् / नवरं रजतं रूप्यम्, मणयश्चन्द्रकान्तादयः, शिलाराजपट्टकः, गन्धपट्ट इत्यन्ये / शेषं प्रतीतं यावत्तदेतत्प्रतिमानप्रमाणम् / तदेवं समर्थित मानोन्मानादिभेदभिन्नं पञ्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् // 329 / / अथ क्षेत्रप्रमाणमभिधित्सुराह से किंतं खेत्तपमाणे? 2 दुविहे पण्णत्ते, तंजहा- पदेसणिप्फण्णे य१विभागणिप्फण्णे य 2 // सूत्रम् 330 // 0 व्वि। 0 सूत्र 314-329 सूत्रपाठानां स्थान एकमेव सूत्राङ्क 132 वर्तते। 0 क्वचित्काकणी क्वचिच्च काकिणी' त्युभयथा पाठ उपलभ्यते / [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 328-329 1.3.1 द्रव्यप्रमाणम्। 1.3.1.2 विभागनिष्पन्नम्। 1.3.1.2.5 प्रतिमानप्रमाणम्। 330-335 1.3.2.2 विभागनिष्पन्नम्। अइलवितस्तिरनिधन्वादि भेदाः / // 247 //