SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीहेमचन्द्र श्रीअनुयोग- ब्रह्मा विष्णुर्वसुर्वरुणो ऽजो विवर्द्धिः, अस्य स्थानेऽन्यत्राहिर्बुध्नः पठ्यते, पूषाऽश्विर्यमश्चैवेति // 89-90 // 286 // से कि द्वारंमलधारि तंकुलनामे, इत्यादि। यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनामस्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः॥ सूरि वृत्ति- 287 / / से किंतं पासंडणामे, इत्यादि / इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते / तत्र युतम्। निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा (पिण्डनि० गा० 445) इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण // 232 // उच्यते / एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयोभावनीयाः। नवरं भिक्षुर्बुद्धदर्शनाश्रितः // 288 // से किं तंगणनामे, इत्यादि। इह मल्लादयो गणाः। तत्र यो यस्मिन्गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यत इति, मल्ले मल्लदिण्णे, इत्यादि // 289 // से किं तं जीवियाहेतुमित्यादि। इह यस्या जातमात्रमपत्यं म्रियते सालोकस्थितिवैचित्र्याज्जातमात्रमपि किञ्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति / तस्य चावकरक उत्कुरुटक इत्यादि यन्नाम क्रियते तज्जीविकाहेतोः स्थापनानामाख्यायते। सुप्पएत्ति, यः सूर्पकृत्वा त्यज्यते तस्य सूर्पकएव नाम स्थाप्यते,शेषं प्रतीतम् // 290 // से किं तं आभिप्पाइयनामे, इत्यादीह यद्वक्षादिषु प्रसिद्ध मम्बको निम्बक इत्यादि। नाम देशरूढ्या स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थः। तदेतत्स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति // 291 // से किं तं दव्वप्पमाणे? 2 छव्विहे पण्णत्ते, तंजहा-धम्मत्थिकाए जाव अद्धासमए, से तं दव्वप्पमाणे ॥सूत्रम् 292 // B से किं तं दव्वपमाणे, इत्यादि। अयमत्र भावार्थः, धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि, द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि / धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त ©श्वः। 6 से तं देवतानामे' इत्यधिकम्। [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। सूत्रम् 292 1.2.10 दशनाम। 1.2.10.10 प्रमाणनाम। 1.2.10.10.3 द्रव्यप्रमाणं धर्मास्तिकायादि षड्डिधम्। 1.2.10.10.4 भावप्रमाणं सामासिकादि। सप्तविधंसामासिकनिरूपणम्। // 232 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy