SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 225 // शा० उपक्रमः। 11.2 नाम। सूत्रम् दशनाम। 1.2.10.4-8 प्रधानता, सूत्रम् 271 // [1] उपक्रमः। से किं पडिवक्खपएणमित्यादि / विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तद्वाचकं पदं विपक्षपदं तन्निष्पन्नं किञ्चिन्नाम भवति / यथा शृगाल्यशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते। किं सर्वदा? नेत्याह- नवेस्वित्यादि / तत्र ग्रसते बुद्ध्यादीन्गुणानिति ग्राम: प्रतीतः / आकरोलोहाद्युत्पत्तिस्थानम्, नगरंकररहितम्, खेटंधूलीमयप्राकारोपेतम्, कर्बर्टकुनगरम्, 267-271 मडम्बंसर्वतो दूरवर्तिसन्निवेशान्तरम्, द्रोणमुखंजलपथस्थलपथोपेतम्, पत्तनंनानादेशागतपण्यस्थानम्, तच्च द्विधा जलपत्तनं / 1.2.10 स्थलपत्तनं च / रत्नभूमिरित्यन्ये / आश्रम: तापसादिस्थानम्, सम्बाधोऽतिबहुप्रकारलोकसंङ्कीर्णस्थानविशेषः / सन्निवेशो घोषादिः, अथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्चेत्येवं योज्यते / ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा प्रतिपक्ष, मङ्गलार्थ शिवेत्युच्यतेऽन्यदा त्वनियमः। तथा कोऽपि कदाचित्केनापि कारणवशेनाग्निः शीतो विषं मधुरमित्याद्याचष्टे / तथा अनादिकल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यत्यतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते / तदेवमेतानि शिवादीनि सिद्धान्तं, नाम, विशेषविषयाणि दर्शितानि / साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह जे अलत्तए, इत्यादि / यो रक्तो लाक्षारसेन, अवयवमिति स एव रश्रुतेर्लश्रुत्याऽलक्तक उच्यते / तथा यदेव लाति, आदत्ते, धरति, प्रक्षिप्तं जलादि वस्त्विति निरुक्तेर्लाबु तदेवालाबु। तुम्बकमभिधीयते / य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः। आलवंते त्ति, आलपन्, अत्यर्थं लपन्नसमज्जसमिति गम्यते।स किमित्याह- विवलीयभासएत्ति, भाषकाद्विपरीतो विपरीतभाषक इति, राजदन्तादिवत्समासः, अभाषक इत्यर्थः। // 225 // तथाहि सुबह्वसम्बद्धं प्रलपन्तं कश्चिदृष्ट्रा लोके वक्तारोभवन्ति, अभाषक एवायं द्रष्टव्योऽसारवचनत्वादिति।प्रतिपक्षनामता ®जो अल...1 0 प्राकृतशैल्या कन्प्रत्ययः' इत्यधिकम् / नामानि /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy