________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 212 // 1.2.8 मन्तरेणापि द्वितीयाविधानादेवमन्यत्रापि यथासम्भवंवाच्यम् / विवक्षितक्रियासाधकतमंकरणम्, तस्मिंस्तृतीया कृता विहिता। [1] उपक्रमः। सम्प्रदीयते यस्मै तद्वादिदानविषयभूतं संप्रदानम्, तस्मिंश्चतुर्थी विहिता // 57 // अपादीयते वियुज्यते यस्मात्तद्वियुज्यमानावधिभूतमपादानंतत्र पञ्चमी विहिता, स्वमात्मीयंसचित्तादि, स्वामीराजादिः, तयोर्वचनेतत्सम्बन्धप्रतिपादने षष्ठीविहितेत्यर्थः |१.२नाम। संनिधीयत आधीयते यस्मिंस्तत्सन्निधानमाधारस्तदेवार्थः, तस्मिन् सप्तमी विहिता। अष्टमीसम्बुद्धिरामन्त्रणीभवेदामन्त्रणेऽर्थे / सूत्रम् 261 विधीयत इत्यर्थः॥५८॥ एनमेवार्थं सोदाहरणमाह- तत्थ पढमेत्यादिगाथाश्चतस्रो गतार्था एव / नवरं प्रथमा विभक्तिर्निर्देशे, अष्टनाम। व यथेत्याह- सोत्ति सः तथा इमोत्ति, अयम्, अहंति अहम्, वाशब्द उदाहरणान्तरसूचकः। उपदेशे द्वितीया क्व यथेत्याह, गा०५७-६२ अष्टविधविभण कुरु वा, किं तदित्याह- इदं प्रत्यक्षम्, तद्वा परोक्षमिति // 59 // तृतीया करणे, क्व यथेत्याह- भणितं वा कृतं वा, भक्तिभेदैकेनेत्याह- तेन वा मया वेति / अत्र यद्यपि कर्तरि तृतीया प्रतीयते, तथापि विवक्षाधीनत्वात्कारकप्रवृत्तेस्तेन मया वा कृत्वा निरूपणम्। भणितं कृतं वा देवदत्तेनेति गम्यत इति / एवं करणविवक्षापि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता विदन्तीति / हंदि नमो साहाए, इत्यादि / हन्दीत्युपदर्शने, नमो देवेभ्यः, स्वाहा अग्नये, इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके। अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति // 60 // अपनय गृहाण, एतस्मादितो वेत्येवमपादाने पञ्चमी। तस्यास्य गतस्य वा, कस्य?, भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्बन्धे षष्ठी॥६१॥ तद्वस्तु बदरादिकमस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमीभवति। तथा कालभावेयत्ति, कालभावयोश्चेयं द्रष्टव्या। तत्र काले यथा मधौरमते, भावे तुचारित्रेऽवतिष्ठते। // 212 // Oणार्थे। 0 साधूनां हि प्रत्यहं बहुवेलकरणात् प्रतिकार्यमाचार्यपृच्छासद्भावाच कारकोऽत्राचार्य: विवक्ष्यते करणं च साधवस्तदा संगतिरत्र। 0 स्पृह्यादिव्याप्यादिवत्तत्र तत्संज्ञाकरणात्। 'वा' न वर्तते।