________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 213 // १.२नाम। सूत्रम् 262 1.2.9 नवनाम। गा०६३ शृङ्गारादि नवकाव्य रसाः / आमन्त्रणे भवेदष्टमी यथा हे युवन्निति / वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति / इह च नामविचारप्रस्तावात्प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तच्चाष्टविभक्तिभेदादष्टविधं भवति,नच प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्त्यतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेदमुच्यत इति भावार्थः॥ 61 // (ग्रन्थाग्रं० 3000) से तं अट्ठनामे त्ति निगमनम् // 261 // (1) से किंतं नवनामे? 2 णव कव्वरसा पण्णत्ता, तंजहा- वीरो 1 सिंगारो 2 अब्भुओय 3 रोबो य 4 होइ बोधव्वो / वेलणओ 5 बीभच्छो 6 हासो 7 कलुणो 8 पसंतो य 9 // 63 // अथ नवनाम निर्दिशन्नाह-नवनाम्नि नव काव्यरसा: प्रज्ञप्ताः / तत्र कवेरभिप्रायः काव्यम् / रस्यन्तेऽन्तरात्मनानुभूयन्त इति रसाः / तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः / उक्तं च, बाह्यार्थालम्बनो यस्तु, विकारो मानसो भवेत्। स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः॥१॥ काव्येषूपनिबद्धा रसाः काव्यरसाः, वीरशृङ्गारादयः / तानेवाह- वीरो सिंगारोइत्यादिगाथा सुगमा। नवरं शूर वीर विक्रान्ता (कान्धा०९-२१५) विति। वीरयति विक्रामयति त्याग तपो वैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरः, रस इति सर्वत्र गम्यते / शृङ्गसर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमियर्ति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवोरतिप्रकर्षात्मकः शृङ्गार: सर्वरसप्रधान इत्यर्थः / अत एव शृङ्गार हास्य करुणा, रौद्र वीर भयानका: / बीभत्सा ऽद्भुत शान्ताश्च, नव नाट्ये रसाः स्मृताः॥१॥इत्यादिष्वयं सर्वरसानामादावेव पठ्यते / अत्र तु त्यागतपोगुणौ वीररसे वर्तते, त्यागतपसी च त्यागो गुणो गुणशतादधिको मतो मे 0 तथा (चा)। द्धा शयन्ना।