SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 210 // निद्दोसमित्यादि / तत्र अलियमुवघायजणय (आवश्यक नि०८८१-८४, कल्पभा० 278-81) मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषम् 1 / विशिष्टार्थयुक्तं सारवत् 2 / गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् 3 / उपमाद्यलङ्कारयुक्तमलङ्कतम् / / उपसंहारोपनययुक्तमुपनीतम् 5 / अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् 6 / अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितम् 7 / मधुरं श्रव्यशब्दार्थम् 8, गेयं भवतीति शेषः॥५१॥ तिण्णि य वित्ताइंत्ति यदुक्तं तत्राह। सममित्यादि। यत्र वृत्ते चतुर्ध्वपि पादेषु सङ्ख्यया समान्यक्षरणि भवन्ति तत्समम्। यत्र प्रथमतृतीययोद्धितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमम् / यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद्विषमम् / जति यस्माद्वृत्तं भवतीति शेषः, तस्मात्त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकरो नोपलभ्यतेऽसत्त्वादित्यर्थः / एवमन्यथाप्यविरोधतो व्याख्येयमिदमिति // 52 // दुण्णि य भणिइओत्ति यदुक्तं तत्राह- सक्कए, त्यादि।भणितिर्भाषा, स्वरमण्डलेषड्जादिस्वरसमूहे, शेषंकण्ठ्यम् ॥५३॥गीतविचारप्रस्तावादिदमपि पृच्छति, केसी गायतीत्यादिप्रश्नगाथा सुगमा नवरं केसित्ति कीदृशी स्त्री इत्यर्थः। खरंति खरस्थानम्, रूक्षं प्रतीतम्, चतुरंदक्षम्, विलम्बितं परिमन्थरम्, द्रुतं शीघ्रमिति / विस्सरं पुण केरिसित्ति गाथाधिकमिदम् ॥५४॥अत्र क्रमेणोउत्तरमाह- सामा गायइ महुरमित्यादि। अत्रापि विस्सरं पुण पिंगलत्ति गाथाधिकमेव / व्याख्या सुकरैव। नवरं पिङ्गला कपिलेत्यर्थः॥५५॥समस्तस्वरमण्डलसंक्षेपाभिधानेनोपसंहरन्नाह- सत्तसरेत्यादि / तता तन्त्री तानोभण्यते। तत्र षड्जादयः स्वराः प्रत्येकं सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रिकायांवीणायां भवन्तीति / एवं तदनुसारेणैकतन्त्रिकायां त्रितन्त्रिकायां कण्ठेनापि वागीयमाना एकोनपञ्चाशदेव ताना भवन्तीति / तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिः सर्वस्यापि ब्धं / 0 गोरी। O...शदेव तानाः / [1] उपक्रमः। शा० उपक्रमः। |1.2 नाम। सूत्रम् 260 1.2.7 सप्तनाम। गा०४६-५६ गीतस्य षड्दोषा अष्टौ गुणा: सप्त स्वरा स्त्रिणि वृत्तानि द्वे भणित्यौ तथा मधुर खर रूक्ष चतुर विलम्बित द्रुत विस्वरगायिका निरूपणमुपसंहारश्च। // 210 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy