________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 203 // १.२नाम (4) सत्त सरा अजीवणिस्सिया पण्णत्ता, तंजहा-सज्जं रवइ मुयंगो 1 गोमुही रिसह सरं 2 / संखो रवइ गंधारं 3, मज्झिमं पुण झल्लरी 4 // 30 // चउँचलणपतिट्ठाणा, गोहिया पंचमं सरं५।आडंबरोधेवइयं 6, महाभेरी य सत्तमं 7 // 31 // एएसिंणमित्यादि / तत्र नाभेरुत्थितोऽविकारी स्वर आभोगतोऽनाभोगतो वा यदत्र जिह्वादिस्थानं प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमतःस्वरस्थानमुच्यते। तत्र सज्जमित्यादिश्लोकद्वयंसुगमम् / नवरंचकारोऽवधारणे / षड्जमेव प्रथमस्वरलक्षणं ब्रूयात्, कयेत्याह-अग्रभूता जिह्वा, अग्रजिह्वाजिह्वाग्रमित्यर्थस्तया। इह यद्यपिषड्जभणने स्थानान्तराण्यपि कण्ठादीनि व्याप्रियन्त अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तया तमेव ब्रूयादित्युक्तम् / इदमत्र हृदयम्, षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्ट व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या / उरोवक्षस्तेनार्षभं स्वरम्, ब्रुयादिति सर्वत्र सम्बध्यते। कंठुग्गएणंति कण्ठादुगमनमुद्गतिः,स्वरनिष्पत्तिहेतुभूता क्रिया तेन कण्ठोद्गतेन गान्धारम्। जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमम् // 26 // तथादन्ताश्चौष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति / भ्रूक्षेपावष्टम्भेन निषादमिति / इत ऊर्ध्वं सर्वं निगदसिद्धमेव // 27 // नवरं जीवनिस्सियत्ति जीवाश्रिताः जीवेभ्यो वा निसृता निर्गताः। सज्जं रखतीत्यादिश्लोकः। रवति नदति। गवेलत्ति गावश्चैलकाश्चोरणका गवेलकाः, अथवा गवेलका ऊरणका एव // 28 // अह कुसुमेत्यादि / अथेति विशेषणार्थ:, विशेषणार्थता चैवम्, यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिलः, अपि तु कुसुमसंभवेकालेत्ति वनस्पतिषु बाहुल्येन कुसुमानां मल्लिकापाटलादीनां सम्भवो ७चउच्चरणपइट्ठाणा। ७रे। तं। 0 भूत्क्षे / 7 थे। सूत्रम् 260 1.2.7 सप्तनाम। गा०२६-३१ सप्तस्वरस्थानानि जीवाजीवनिश्रितसप्त स्वरनिरूपणम् /