________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 201 // [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। सूत्रम् 260 1.2.7 सप्तनाम। गा०२५ षड्जादि सप्तस्वराः। भेया एमेते पण्णरसत्ति। से तं सण्णिवाइएत्ति निगमनम् / उक्तः सान्निपातिको भावः, तद्भणने चोक्ताः षडपि भावाः, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुंन शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि / एतैश्चषभिरपिधर्मास्तिकायादेः समस्तस्यापि वस्तुनःसङ्गहात् षट्प्रकारं सत्सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया दिशा सर्वमिदंभावनीयम्, से तंछण्णामेत्ति निगमनम् / / 258-259 // उक्तं षड्नामाथ सप्तनामं निरूपयितुमाह (1) से किंतं सत्तनामे? 2 सत्त सरा पण्णत्ता, तंजहा- सज्जे१ रिसभे 2 गंधारे 3, मज्झिमे 4 पंचमे सरे 5 / धेवए 6 चेव णेसाए 7, सरा सत्त वियाहिया // 25 // से किं तं सत्तनामे, इत्यादि। स्वृ शब्दोपतापयो (का०धा०१/२७१) रिति स्वरणानि स्वरा: ध्वनिविशेषाः, ते च सप्त, तद्यथा सज्जे, इत्यादि श्लोकः / व्याख्या षड्भ्यो जातः षड्जः / उक्तं च, नाशां कण्ठमुरस्तालु, जिह्वां दन्ताँश्च संश्रितः / षड्भिः संजायते यस्मात्, तस्मात् षड्ज इति स्मृतः॥१॥तथार्षभोवृषभः, तद्वद्यो वर्ततेस ऋषभः,आह च- वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नर्दन् वृषभवद् यस्मात्, तस्माद्वृषभ उच्यते // 2 // तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो गन्धवाहविशेष इत्यर्थः। अभाणि च, वायुः समुत्थितो नाभेः कण्ठः शीर्ष समाहतः। नानागन्धावहः पुण्यो,गान्धारस्तेन हेतुना // 3 // तथा मध्ये कायस्य / भवो मध्यमः, यदवाचि, वायुः समुत्थितो नाभेरुरोहृदि समाहतः / नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते॥४॥ तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः, अथवा पञ्चसुनाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, यदभ्यधायि, वायुः समुत्थितो नाभेरुरोहृत्कण्ठशिरोहतः / पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते॥५॥ तथातिसन्धयतेऽनुसन्धयति शेषस्वरानिति 0 मेव / 0 हे। 0 रेवए (धेवए)। त्ति', इत्यधिकम् / 7 सां। 0 नाभेर्हृदि कण्ठे समाहतः। 7 नवाक्षरोऽयं पदः, I भि। // 201 //