________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 200 // १.२नाम। पादितत्वादिति / तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रयः संवृतिमात्रं तद्रूपेण वस्तुन्यसम्भवादिति // 257 // साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह तत्थणंजेसे एकेपंचकसंजोगेसेणंइमे-अस्थि नामे उदइए उवसमिएखइएखओवसमिए पारिणामियनिप्पन्ने 1 // सूत्रम् 258 // ____ कतरे से नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिष्पन्ने?, उदएत्ति मणूसे, उवसंता कसाया, खइयं सम्मत्तं, खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से णामे उदइए उवसमिएखइए खओवसमिए जाव पारिणामियनिप्पन्ने, सेतं सन्निवाइए, सेतं छण्णामे ॥सूत्रम् 259 // // 126 // ) तत्थ णं जे से एक्के पंचसंजोगे, इत्यादि। अयं च सविवरणः सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् य उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गकः सम्भवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः / तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकसयोग इत्येते षड् भङ्गका अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम् / एतेषु च षट्सु भङ्गकेषु मध्य एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतमतो गतिचतुष्टयभेदात्ते किल द्वादशविवक्ष्यन्ते, ये तु शेषा द्विकयोग त्रिकयोग पञ्चकयोगलक्षणास्त्रयो भङ्गाः सिद्ध केवल्युपशान्तमोहानां यथाक्रमं निर्णीताः, ते यथोक्तैकैकस्थानसम्भवित्वात्रय एवेत्यनया विवक्षयाऽयंसान्निपातिको भावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यः ।यदाह-अविरुद्धसन्निवाइय 0ग0 'प्फण्णे' इति सर्वत्र / 0 उदइए। 0 गुस्से / 7 232-259 सूत्राणां स्थान एकमेव 126 सूत्राङ्कोऽस्ति। 0 ‘पञ्चकयोगे' ति। 0 (वि) व / सूत्रम् 258-259 1.2.6 षड्नाम। 1.2.6.6 पञ्चसंयोगिकैकभेदनिरूपणम्। // 200 //