________________ [1] उपक्रमः / शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 190 // 1.2 नाम। स्य क्षयः सर्वथापगमोनुदीर्णस्य तु तस्यैवोपशमोऽविपाकत उदयाभाव इत्यर्थः / ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः / ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणंशेषं तुन क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेष:? उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः / तत्र चतुर्णा घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां य: क्षयोपशमरूपः, स क्षायोपशमिको भावः।णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति / शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिद्धत्वात् / से तमित्यादि निगमनम् // 245-246 // तेनचक्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षायोपशमिको भावोऽनेकधा भवति। तमाह- खाओवसमिता आभिणिबोहियणाणलद्धीत्यादि। आभिनिबोधिकज्ञानं मतिज्ञानं तस्य लब्धिर्योग्यता, स्वावरणकर्मक्षयोपशमसाध्यत्वात्क्षायोपशमिक्येवंतावद्वक्तव्यं यावन्मनःपर्यायज्ञानलब्धिः / केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता / कुत्सितं ज्ञानमज्ञानं मतिरेवाज्ञानं मत्यज्ञानम्, कुत्सितत्वं चेह मिथ्यादर्शनोदयदुषितत्वादृष्टव्यम् / दृष्टा च कुत्सार्थे नत्रो वृत्तिः, यथा कुत्सितंशीलमशीलमिति / मत्यज्ञानस्य लब्धिर्योग्यता, सापि स्वावरणक्षयोपशमेनैव निष्पद्यत एवं श्रुताज्ञानलब्धिरपि वाच्या। भङ्गः प्रकारो भेद इत्यर्थः / स चेह प्रक्रमादवधेरैव गृह्यते। विरूपः कुत्सितो भङ्गो विभङ्गः, स एवार्थपरिज्ञानात्मकत्वाज्ज्ञानं विभङ्गज्ञानम्, मिथ्यादृष्टिदेवादेरवधिविभङ्गज्ञानमुच्यत इत्यर्थः / इह च विशब्देनैव कुत्सितार्थप्रतीतेन नो निर्देशः। तस्य लब्धिर्योग्यता, साऽपि स्वावरणक्षयोपशमेनैव प्रादुरस्ति / एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्या:शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भाव®क्षयोपशमः' इत्यधिकम् / (c) तेनैव। 0 या। 0 धिरे / सूत्रम् 245-247 1.2.6 षइनाम। |1.2.6.4 क्षायोपशमिकभावस्य क्षयोपशमक्षयोपशमनिष्पन्न भेदप्रभेदनिरूपणम्। // 190 //