________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 188 // क्षायिकभावस्य वौदारिकशरीरास्थ्यांपरस्परबन्धविशेषनिबन्धनं संहनननाम। एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरेन दृश्यत एव / बोन्दिस्तनुः [[1] उपक्रमः। शरीरमिति पर्यायाः। अनेकाश्चता नानाभवेषु बह्वीनांतासांभावात्तस्मिन्नेव वा भवेजघन्यतोऽप्यौदारिकतैजसकार्मणलक्षणानां तिसृणां भावाद्वोन्द्यश्चानेकबोन्द्यः, तासां वृन्दं पटलं तदेव पुद्गलसङ्कातरूपत्वात्सङ्गातोऽनेकबोन्दिवृन्दसङ्घात:। गत्यादीनां१.२ च द्वन्द्वे गति जाति शरीराङ्गोपाङ्ग बन्धनसंघातन संहनन संस्थानानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा। प्राक्तनेन सूत्रम् 242-244 शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतंबोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषः / क्षीणमपगतं तीर्थकर शुभ सुभग सुस्वरा देययश:कीर्त्यादिकं शुभं नाम यस्य स तथा। क्षीणमपगतं नरकगत्य शुभ दुर्भग दुःस्वरा नादेया घड्ना 1.2.6.3 यश:कीर्त्यादिकमशुभं नाम यस्य स तथा। अनाम निर्गम क्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः। शुभाशुभनाम क्षयक्षयनिष्पन्न विप्रमुक्त इति निगमनम् / गोत्रं द्विधा, उच्चैर्गोत्रं नीचैर्गोत्रं च / ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखा भेदप्रभेद वसेयान्येव / दानान्तरायादिभेदादन्तरायं पञ्चधा / तत्क्षयनिष्पन्नानि च क्षीणदानान्तरायादिनामान्यविषमाण्येव / तदेवमेकैक- निरूपणम्। प्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह, सिद्धे, इत्यादि। सिद्धसमस्तप्रयोजनत्वात्सिद्धः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थबन्धनमुक्तत्वान्मुक्त:, परि, समन्तात्सर्वप्रकारैः निर्वृतः, सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वाच्छीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकृत्त्वादन्तकृदिति। एकान्तेनैव शारीरमानसदुःखप्रहाणात्सर्वदुःखप्रहीणइति / से तमित्यादि निगमनद्वयम् // 244 // उक्तो द्विविधोऽपि क्षायिकोऽथ क्षायोपशमिकमाह७ इति / O रिः। // 188 //