SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 187 // वेदनोऽप्युच्यते, ततः प्राह- निर्वेदनोऽपगतसर्ववेदनः, सच पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदनोऽपुनर्भाविवेदनः / निगमयन्नाह- सुभासुभवेअणिज्जकम्मविप्पमुक्केत्ति / मोहनीयं द्विधा, दर्शनमोहनीयं च चारित्रमोहनीयं च। तत्र दर्शनमोहनीयं त्रिधा, सम्यक्त्वमिश्रमिथ्यात्वभेदात् / चारित्रमोहनीयं तु द्विधा, क्रोधादिकषायहास्यादिनोकषायभेदात्तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनिनामानिसुबोधान्येव।नवरंमायालोभौ प्रेम, क्रोधमानौतु द्वेषः / तथाऽमोहोपगतमोहनीयकर्मा / स च व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यतेऽत आह, निर्गतो मोहा निर्मोहः। स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत्तद्व्यवच्छेदार्थमाह-क्षीणमोहोऽपुनर्भाविमोहोदय इत्यर्थः। निगमयति, मोहनीयकर्मविप्रमुक्त इति / नारकाद्यायुष्कभेदेनायुश्चतुर्दा, तत्क्षयसमुद्भवानि च नामानि सुगमानि / नवरमविद्यमानायुष्कोऽनायुष्कस्तविकायुःक्षयमात्रेऽपि स स्यादत उक्तं निरायुष्कः। स च शैलेशीं गतः किञ्चिदवतिष्ठमानायुःशेषोऽप्युपचारतः स्यादत उक्तं क्षीणायुरिति, आयुः कर्मविप्रमुक्त इति निगमनम् / नामकर्म सामान्येन शुभाशुभभेदतो द्विविधम्, विशेषतस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयम् / तत्रेह तत्क्षयभावीनि कियन्तिचिन्नामान्यभिधत्ते, गइजाइसरीरेत्यादि। इह प्रक्रमान्नामशब्दो यथासम्भवंद्रष्टव्यः। ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुबन्धननाम, तेषामेव पुद्गलानां परस्पर बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत्तथाविधकर्मकर इव सङ्घातनाम, कपाटादीनांलोहपट्टादिरि® तत्रेति न वर्तते। 0 च। (c) कियन्ति तन्नामा...। सूत्रम् 242-244 1.2.6 षड्नाम। 1.2.6.3 क्षायिकभावस्य क्षयक्षयनिष्पन्न भेदप्रभेद निरूपणम् / // 187 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy