________________ [1] उपक्रमः / शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 181 // 1.2 नाम। सूत्रम् 233 1.2.5 पवनाम। नामिकादि। 1.2.6 एतैरपि सर्वस्य क्रोडीकरणात्पञ्चनामत्वं भावनीयम्, से तं पंचनामेत्ति निगमनम् // 232 // से किं तं छनामे? 2 छव्विहे पण्णत्ते, तंजहा, उदइए 1 उवसमिए 2 खइए 3 खओवसमिए 4 पारिणामिए 5 संनिवातिए 6 ॥सूत्रम् 233 // से किं तं छनामे, इत्यादि। अत्रौदयिकादयः षड् भावाः प्ररूप्यन्ते, तथा च सूत्रम्, उदइए, इत्यादि / अत्राह- ननु नाम्नि प्रक्रान्ते तदभिधेयानामर्थानां भावलक्षणानांप्ररूपणमयुक्तमिति / नैतदेवम्, नामनामवतोरभेदोपचारात्तत्प्ररूपणस्याप्युदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यम्, तत्रज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकोऽनुभवनमुदयः, स एवौदयिकः। अथवा यथोक्तेन वोदयेन निष्पन्न औदयिकः, भाव इति सामर्थ्यागम्यते। उपशमनमुपशमः, कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत्स एव औपशमिकः, तेन वा निवृत्त औपशमिकः / क्षयः, कर्मणोऽपगमः, स एव तेन वा निर्वृत्तः क्षायिकः / कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिको दरविध्यातभस्मच्छन्नवह्निवत्। परिणमनम्, तेन तेन रूपेण वस्तूनां भवनं परिणामः, स एव तेन वा निर्वृत्तः पारिणामिकः। अनन्तरोक्तानां व्यादिभावानां मेलकः सन्निपातः, स एव तेन वा निवृत्तः, सान्निपातिकः॥ सूत्रम् 233 // तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमाह से किं तं उदइए? 2 दुविहे पण्णत्ते, तंजहा, उदए य 1 उदयनिष्फण्णे य 2 // सूत्रम् 234 // से किं तं उदए? 2 अट्ठण्हं कम्मपगडीणं उदएणं, सेतं उदए। सूत्रम् 235 // __ से किं तं उदयनिप्फन्ने? 2 दुविहे पण्णत्ते, तंजहा, जीवोदयनिप्फन्ने य अजीवोदयनिष्फन्ने य / / सूत्रम् 236 // 0 उदइए,। षड्नाम। औदयिकादि। सूत्रम् 234-238 औदयिकभावस्योदयोदयनिष्पन्नादि भेदनिरूपणम्। // 181 //