________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति शा० उपक्रमः। १.२नाम। युतम्। // 177 // 1.2.3 1.2.3.3 द्वाभ्यां गुणाभ्यां तदंशाभ्यां कालकः परमाण्वादिरेव द्विगुणकालकः / एवं तावन्नेयं यावदनन्तैर्गुणैः तदंशैः कालकोऽनन्त- [1] उपक्रमः। गुणकालकः स एवेति / एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति / आह-8 गुणपर्याययोः कः प्रतिविशेष:? उच्यते, सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यन्ते, न हि मूर्ते वस्तुनि वर्णादिकमात्रंकदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थातो निवर्तन्त एवेत्यतः क्रमवृत्तित्वा- सूत्रम् 225 त्पर्यायाः। उक्तं च सहवर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्यायाः, यथा तस्यैव नारकत्वतिर्यक्त्वादय त्रिनाम। इति / ननु यद्येवं तर्हि वर्णादिसामान्यस्य भवतु गुणत्वं तद्विशेषाणां तु कृष्णादीनां तन्न स्यादनियतत्वात्तेषाम् / सत्यम्, पर्यायनामावर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्राय:प्रभूतकालं सहवर्तित्वाद्गुणत्वं विवक्षितमित्यलं विस्तरेण / आह- भवत्वेवं नेकविधम्। किन्तु पुद्गलास्तिकायद्रव्यस्यैव सम्बन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वेनोदाहृताः? न धर्मास्तिकायादीनाम्, न सूत्रम् 226 चवक्तव्यं तेषां तेनसन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रमंगतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां प्रत्येकमन त्रिनाम्नः न्तानामगुरुलघुपर्यायाणाञ्च प्रसिद्धत्वात् / सत्यम्, किन्त्विन्द्रियप्रत्यक्षगम्यत्वात्सुखप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया प्रकारान्तरेण उदाहृतान शेषाणामित्यलं विस्तरेण।तस्माद्यत्किमपिनाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं नात: स्त्रीपुरुष नपुंसकभेदैपरं किमपि नामास्ति, ततः सर्वस्यैवानेन सङ्गहात्त्रिनामैतदुच्यत इति // सूत्रम् 225 // व्याख्यानम्। गा०-तं पुण णामं तिविहं इत्थी 1 पुरिसं 2 णपुंसगं 3 चेव / एएसिं तिण्डंपि य अंतमि परूवणं वोच्छं // 18 // तं पुण गाहा व्याख्या, तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुंनपुंसकलिङ्गेषु वर्तमानत्वात्रिविधं यां। (r) न स्याद् / 0 सुप्रतिपाद्य / 'अ' इत्यधिकम् / 1.2.3 // 177 //