________________ श्रीअनुयोग द्वारंमलधारि शा० उपक्रमः। |श्रीहेमचन्द्र| सूरि वृत्तियुतम्। // 175 // इति गुणास्तेषां नाम गुणनाम / वण्णनामे, इत्यादि, तत्र वर्ण्यतेऽलकियते वस्त्वनेनेति वर्ण: कृष्णादिः पञ्चधा प्रतीत एव, [1] उपक्रमः। कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुन: सर्वथैतद्विलक्षणा इति नेहोदाहृताः / गन्ध्यतआघ्रायत इति गन्धस्तस्य नाम गन्धनाम।सच द्विविध:सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिः, वैमुख्यकृडुरभिः / अत्राप्युभयसंयोगजः पृथग्रोक्तः, एतत्संसर्ग |१.२नाम। जत्वादेव भेदाविवक्षणात् / रस्यत आस्वाद्यत इति रसस्तस्य नाम रसनाम, सच तिक्त कटु कषाया म्ल मधुरभेदात्पञ्चविधः। सूत्रम् 217-224 तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः। तथा च भिषक्शास्त्रम्, श्लेष्माणमरुचिं पित्तं,तृष कुष्ठं विषं ज्वरम् / हन्यात् तिक्तो रसो बुद्धेः, कर्ता मात्रोपसेवितः॥१॥गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः / उक्तं च, कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः। दीपन: पाचको रुच्यो, बृंहणोऽतिकफापहः॥२॥रक्तदोषाद्यपहर्ता बिभीतकामलक कपित्थाद्याश्रितः कषायः। आह च, रक्तदोषं कर्फ पित्तं, कषायो हन्ति सेवितः। रूक्षः शीतो गुरुग्रा(ा)ही, रोपणश्च स्वरूपतः॥ 3 // अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः। पठ्यतेच, अम्लोऽग्निदीप्तिकृत् स्निग्धः, शोफपित्तकफावहः / क्लेदन: पाचनो रुच्यो, मूढवातानुलोमकः॥ ४॥पित्तादिप्रशमकःखण्डशर्कराद्याश्रितो मधुरः। तथा चोक्तम्, पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः / जीवन: केशकृद्वालवृद्धक्षीणौजसां हितः॥५॥ इत्यादि।स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितोलवणोऽपिरस: पठ्यते, स चेह नोदाहृतो,मधुरादि संसर्गजत्वात्तदभेदेन विवक्षणात्सम्भाव्यते च तत्र माधुर्यादिसंसर्गः। सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण। स्पृश्यत इति स्पर्शः कर्कशादिरष्टविधः / तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः। सन्नतिकारणं तिनिशलतादिगतो मृदुः। अध:पतनहेतुरयोगोलकादिगतो गुरुः। प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो गुणग्राही रोचकश्च / रुपनः / 1.2.3 त्रिनाम। 1.2.3.1 द्रव्यनाम्नः षड्भेदाः। 1.2.3.2 गुणनाम्नश्च पञ्चभेदाः।