________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। युतम्। | // 166 // सूत्रम् 207 1.1.10 भावानुपूर्वी औदयिकादि षड्भेदाः। होअगहिएणं (आवश्यक नि०६९७)ति (9) / त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति (10) / एवमेते दशप्रकारा:काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः॥ इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याज्ञाबलाभियोगलक्षणपरोपतापवर्जकत्वात्प्राधान्यात्प्रथममुपन्यासः। अपरोपतापकेनापिच कथञ्चित्स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य। एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनंच तथाकारकरणेनैव सम्यक्प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य। प्रतिपन्नगुरुवचनेन चोपाश्रयाहिर्निर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्याः। बहिर्निगतेन च नैषेधिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः। उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः। आपृष्टे च निषिद्धेन पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः। प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः। एषा च गृहीत एवाशनादौ स्यादगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः। इयं च सर्वापि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तरेण न ज्ञायत इति तदनन्तरमुपसम्पदउपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति / शेषं पूर्ववदिति ॥२०६॥अथ भावानुपूर्वीमाह (1) से किं तं भावाणुपुव्वी? 2 तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी 3 / (2) से किं तं पुव्वाणुपुव्वी? 2 उदइए 1 उवसमिए 2 खतिए 3 खओवसमिए 4 पारिणामिए 5 संनिवातिए, 6 से तं पुव्वाणुपुष्वी। (3) से किंतं पच्छाणुपुव्वी? 2 सन्निवातिए 6 जाव उदइए 1 से तं पच्छाणुपुव्वी। (4) से किं तं अणाणुपुव्वी? 2 एयाए चेव एगातियाएं एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, सेतं अणाणुपुव्वी।से तं भावाणुपुव्वी, सेतं आणुपुव्वी, आणुपुव्वि 010 खाइ। 0510 वी। // 166 //