________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 165 // निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी (3) / उक्तंच, सामायारी तिविहा ओहे दसहा पदविभागे [1] उपक्रमः। (आवश्यक नि०६६५)त्ति, तत्रेह दशधासामाचारीमाश्रित्योक्त मिच्छामिच्छातहक्कारो, इत्यादि। अत्र कारशब्दः प्रत्येकमभिसम्बध्यते / ततश्चैषणमिच्छा विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तया करण मिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः 1.1 आनुपूर्वी। (1) मिथ्या,असदेतद्यन्मयाचरितमित्येवंकरणं मिथ्याकारः।अकृत्ये कस्मिँश्चित्कृते मिथ्या, वितथमिदंन पुनर्यथा भगवद्भिक्तं सूत्रम् 206 तथैवैतन्मच्चेष्टितमतो दुष्कृतम्, दुराचीर्णमित्येवमसत्क्रियानिवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् (2) / सूत्रव्याख्यानादौ सामाचार्यानुप्रस्तुते गुरुभिः कस्मिँश्चिद्वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुर्वाज्ञाभ्युपगम पूर्वी इच्छाका रादि दशभेदाः। इत्यर्थः (3) / अवश्यकर्तव्यमावश्यकं तत्र भवा, आवश्यकी, ज्ञानाद्यालम्बनेनोपाश्रयाद्वहिरवश्यंगमने समुपस्थितेऽवश्यं कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदनावश्यकीति हृदयम् (4) / निषेधे भवा नैषेधिकी, उपाश्रयाबहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रवेशित: साधोः शेषसाधूनामुत्त्रासादि दोष परिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचना नैषेधिकीति परमार्थः (5) / भदन्त! करोमीदमित्येवंगुरोः प्रच्छनमाप्रच्छना (6) / एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना (7) / खद खट्ट संवरणे (का०धा०९/२३) इत्यस्यानेकार्थत्वात्कुरु ममानुग्रहं परिभुङ्क्षवेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना (8) / इदं वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्यामीत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामन्त्राणं निमन्त्रणा, उक्तं च, पुव्वगहिएण छंदण निमंतणा ®सामाचारी त्रिविधा, ओघे दशधा पदविभागे, इति। 0 नान्नै / 0 छन्द छदि संवरणे। 0 पूर्वगृहीतेन छन्दना निमन्त्रणा भवत्यगृहीतेन /